This page has been fully proofread once and needs a second look.

अथ सप्तमस्कन्धपरिच्छेदः ।

 
प्राक्कर्मवासनाभेदा ऊतयः सप्तमोदिताः ।

प्रह्लाद पितृदृष्टान्तैर्लक्ष्यन्तेऽथ हरेर्गुणाः ॥
 

 
अथ प्रह्लादचरितवर्णनाय तदुत्पत्तेः पूर्वं तत्पितुर्हिरण्यकशिपोर्भ गवद्विद्वे-
बा

षा
दिकं प्रस्तौति ---
 

 
हिरण्याक्षे पोत्रिप्रवरवपुषा देव ! भवता

हते शोकको क्रोधग्लपितधृतिरेतस्य सहजः ।

हिरण्यप्रारम्भः कशिपुरमरारातिसदसि

प्रतिज्ञामातेने तव किल वधार्थं मु[^१]ररिपो ! ॥ १ ॥

विधातारं घोरं स खलु तपसित्वा नचिरतः

पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैर निधनम् ।

वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं

परिक्षुन्द न्निन्द्रादहरत दिवं त्वामगणयन् ॥ २ ॥

 
विधातारमिति । परिक्षुन्दन् चूर्णांणीकुर्वन् ॥ २ ॥
 

 
निहन्तुं त्वां भूयस्तव पद्मवाप्तस्य च रिपो-

र्वहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा ।

नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
 

भिया यातं मत्वा स खलु जितकाशी निववृते ॥ ३ ॥
 

 
निहन्तुमिति । तव पदं वैकुण्ठमवाप्तस्य प्राप्तस्य रिपोर्हिरण्यकशिपोर्बहि-

र्दृ
ष्टेर्मांसचक्षुषः सकाशात् त्वं सूक्ष्मवपुषा ज्ञानदृष्टिरहितस्यास्य हृदये अन्तर्दधिथ

अन्तर्हितवान् । ततस्त्वां भीतं मत्वोच्चैर्नदन् सिंहनादं कुर्वन् तत्र वैकुण्ठलोके

अखिलभुवनान्ते चतुर्दशसु लोकेषु जितकाशी जितंमन्यो निववृते निवृत्तोऽभूत् ॥

 
ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ

मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा ।
 

 
[^
]. 'मधुरि' क. घ. पाठ:
 
ठः