This page has not been fully proofread.

११४
 
नारायणीये
 
भक्त्यात्मतत्त्वकथनैः समरे विचित्रं
 
शत्रोरपि भ्रममपास्य गतः पदं ते ॥ १० ॥
 
[ स्कन्धः - ६
 
निःसम्भ्रम इति । ततश्चासौ निःसम्भ्रमः शापभयरहितः समर आत्मत-
त्त्वकथनैः शत्रोरिन्द्रस्यापि भ्रममज्ञानमपास्य तद्वज्रेण हतः ते पदं बैकुण्ठं गतः ।
चित्रमाश्चर्यमेतत् । अत्र गुरुहेलनेनासुरेभ्यः पराजितैर्देवैः पौरोहित्याय वृतो विश्व -
रूपः । स तु दितिसुतापत्यतया मातृपक्षपातेन रहसि दैत्येभ्यो हविर्भागं दत्तवान् ।
इन्द्रस्तुतदालक्ष्यास्य शिरांस्यवृश्चत् । ततश्च त्वहुर्हतपुत्रस्याभिचारकुण्डा दुत्थितो
वृत्रः समरभुवि इन्द्रेण हत इति कथानुसन्धेया ॥ १० ॥
 
अथ दितेर्घोरसङ्कल्पादिन्द्रस्य मरुद्धाच्च भगवदनुग्रहाच्छ्रेयःप्राप्तिमाह -
त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि
 
तान् प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे ।
दुष्टाशयेऽपि शुभदैव भवन्निषेवा
 
तत्तादृशस्त्वमव मां पवनालयेश ! ॥ ११ ॥
 
त्वदिति । दितिरिन्द्रवोद्यता काश्यपं प्रसाद्य इन्द्रहणं पुत्रं वृतवती ।
तस्माद् गर्भं चाधत्त । तथापि त्वत्सेवनेन काश्यपोपदिष्टपुंसवनव्रतानुष्ठानेनेन्द्रहणं
पुत्रं लेभे । अपितु प्रत्युत विपरीतं जातम् । इन्द्रेणाकाले स्वपन्त्या दितेरुदरं प्र
विश्य ये सप्त सप्तधा वृक्णास्तानिन्द्रस्य सुहृदो मरुत एकोनपञ्चाशत्पुत्रानभिलेभे ।
एवं च दुष्टाशथेऽपि भवन्निषेवा शुभदैव, यथा दितेरिन्द्रस्य च । तत्तादृशोऽनन्य-
सदृशः ॥ ११ ॥ २२ ॥
 
इति चित्रकेतूपाख्यानं मरुदुत्पत्तिवर्णनं च त्रयोविंशं दशकं सैकम् ।
 
इति नारायणीयस्तोत्रव्याख्यायां
 
भक्तप्रियाख्यायां
 
षष्ठस्कन्धपरिच्छेदः ।
 
आदितः श्लोकसङ्ख्या २४२.