This page has been fully proofread once and needs a second look.

११४
 
नारायणीये
 
भक्त्यात्मतत्त्वकथनैः समरे विचित्रं
 

शत्रोरपि भ्रममपास्य गतः पदं ते ॥ १० ॥
 
[ स्कन्धः - ६
 

 
निःसम्भ्रम इति । ततश्चासौ निःसम्भ्रमः शापभयरहितः समर आत्मत-

त्त्वकथनैः शत्रोरिन्द्रस्यापि भ्रममज्ञानमपास्य तद्वज्रेण हतः ते पदं बैवैकुण्ठं गतः ।

चित्रमाश्चर्यमेतत् । अत्र गुरुहेलनेनासुरेभ्यः पराजितैर्देवैः पौरोहित्याय वृतो विश्व -

रूपः । स तु दितिसुतापत्यतया मातृपक्षपातेन रहसि दैत्येभ्यो हविर्भागं दत्तवान् ।

इन्द्रस्तु तदालक्ष्यास्य शिरांस्यवृश्चत् । ततश्च त्वहुष्टुर्हतपुत्रस्याभिचारकुण्डा दुत्थितो

वृत्रः समरभुवि इन्द्रेण हत इति कथानुसन्धेया ॥ १० ॥
 

 
अथ दितेर्घोरसङ्कल्पादिन्द्रस्य मरुद्धाच्च भगवदनुग्रहाच्छ्रेयःप्राप्तिमाह -
-
 
त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि
 

तान् प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे ।

दुष्टाशयेऽपि शुभदैव भवन्निषेवा
 

तत्तादृशस्त्वमव मां पवनालयेश ! ॥ ११ ॥
 

 
त्वदिति । दितिरिन्द्रवोवधोद्यता काश्यपं प्रसाद्य इन्द्रहणं पुत्रं वृतवती ।

तस्माद् गर्भं चाधत्त । तथापि त्वत्सेवनेन काश्यपोपदिष्टपुंसवनव्रतानुष्ठानेनेन्द्रहणं

पुत्रं लेभे । अपितु प्रत्युत विपरीतं जातम् । इन्द्रेणाकाले स्वपन्त्या दितेरुदरं प्र

विश्य ये सप्त सप्तधा वृक्णास्तानिन्द्रस्य सुहृदो मरुत एकोनपञ्चाशत्पुत्रानभिलेभे ।

एवं च दुष्टाशथेयेऽपि भवन्निषेवा शुभदैव, यथा दितेरिन्द्रस्य च । तत्तादृशोऽनन्य-

सदृशः ॥ ११ ॥ २२ ॥
 

 
इति चित्रकेतूपाख्यानं मरुदुत्पत्तिवर्णनं च त्रयोविंशं दशकं सैकम् ।
 

 
इति नारायणीयस्तोत्रव्याख्यायां
 

 
भक्तप्रियाख्यायां
 

 
षष्ठस्कन्धपरिच्छेदः ।
 

 
आदितः श्लोकसङ्ख्या २४.