This page has not been fully proofread.

चित्रकेतूपाख्यानम् ।
 
विद्याधराधिपतितां स हि सप्तरात्रे
 
लब्ध्वाप्यकुण्ठमतिरन्वभजद् भवन्तम् ॥ ६ ॥
 
स्तोत्रमिति । शेषवपुषोऽनन्तमूर्तेः ते तव हरेस्तोषाय प्रसादाय तपस्यन् स
चित्रकेतुः सप्तरात्रे सप्तरात्रान्ते विद्याधराधिपतितां लब्ध्वा भवन्तं शेषमूर्तिम् ॥ ६ ॥
त्वं चानन्तरूपेण प्रादुर्भूयात्मतत्त्वमुपदिश्य तिरोहितवानित्याह—
तस्मै मृणालघवलेन सहस्त्रशीर्णा
रूपेण बद्धनुतिसिद्धगणाहतेन ।
प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो
दत्त्वात्मतत्त्वमनुगृह्य तिरोधाथ ॥ ७ ॥
 
दशकम् - २३]
 
-
 
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं
 
वर्षाणि हर्षुलमना भुवनेषु कामम् ।
सङ्गापयन् गुणगणं तव सुन्दरीभिः
 
सङ्गातिरेकरहितो ललितं चचार ॥ ८ ॥
 
त्वदिति । (ते?) तव गुणगणं हरिचरितं विद्याधरसुन्दरीभिः सङ्गापयन् ॥
 
अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो
 
नूनं स रूप्यगिरिमाप्य महत्समाजे ।
निश्श कमङ्ककृतवल्लभमङ्गजारिं
 
तं शङ्करं परिहसन्नुमयाभिशेपे ॥ ९ ॥
 
११३
 
अत्यन्तेति । स च श्रीशङ्करं परिहसन् उमयाभिशेपे आसुरीं योनिं याही-
ति शप्तोऽभूत् । स्वतः सङ्गातिरेकरहितस्यात्यन्तसङ्गविलयाय भवतेश्वरेण प्रणुन्नः
प्रेरितोऽसौ नूनमिति तर्कयामि, अन्यथा तस्य देवहेलनायोगात् ॥ ९ ॥
 
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
 
१. 'ति' ख. पाठः. २. 'पः प्रा' ख. पाठः,