This page has been fully proofread once and needs a second look.

चित्रकेतूपाख्यानम् ।
 
विद्याधराधिपतितां स हि[^१] सप्तरात्रे
 

लब्ध्वाप्यकुण्ठमतिरन्वभजद् भवन्तम् ॥ ६ ॥
 

 
स्तोत्रमिति । शेषवपुषोऽनन्तमूर्तेः ते तव हरेस्तोषाय प्रसादाय तपस्यन् स

चित्रकेतुः सप्तरात्रे सप्तरात्रान्ते विद्याधराधिपतितां लब्ध्वा भवन्तं शेषमूर्तिम् ॥ ६ ॥

 
त्वं चानन्तरूपे[^२]ण प्रादुर्भूयात्मतत्त्वमुपदिश्य तिरोहितवानित्याह
--
 
तस्मै मृणालवलेन सहस्त्रशीर्ष्णा

रूपेण बद्धनुतिसिद्धगणावृतेन ।

प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो

दत्त्वात्मतत्त्वमनुगृह्य तिरोधाथ ॥ ७ ॥
 
दशकम् - २३]
 
-
 

 
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं
 

वर्षाणि हर्षुलमना भुवनेषु कामम् ।

सङ्गापयन् गुणगणं तव सुन्दरीभिः
 

सङ्गातिरेकरहितो ललितं चचार ॥ ८ ॥
 

 
त्वदिति । (ते?) तव गुणगणं हरिचरितं विद्याधरसुन्दरीभिः सङ्गापयन् ॥
 

 
अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो
 

नूनं स रूप्यगिरिमाप्य महत्समाजे ।

निश्श ङ्कमङ्ककृतवल्लभमङ्गजारिं
 

तं शङ्करं परिहसन्नुमयाभिशेपे ॥ ९ ॥
 
११३
 

 
अत्यन्तेति । स च श्रीशङ्करं परिहसन् उमयाभिशेपे आसुरीं योनिं याही-

ति शप्तोऽभूत् । स्वतः सङ्गातिरेकरहितस्यात्यन्तसङ्गविलयाय भवतेश्वरेण प्रणुन्नः

प्रेरितोऽसौ नूनमिति तर्कयामि, अन्यथा तस्य देवहेलनायोगात् ॥ ९ ॥
 

 
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो

वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
 

 
[^
]. 'ति' ख. पाठः.
[^
]. 'पः प्रा' ख. पाठः,