This page has been fully proofread once and needs a second look.

षष्ट्या ततो दुहितृभिः सृजत: कुलौघान्
दौहित्रसूनुरथ तस्य स विश्वरूपः ।
त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ
देव ! त्वदीयमहिमा खलु सर्वजैत्रः ॥ ३ ॥
 
षष्ट्येति । ततः षष्ट्या दुहितृभिरदितिदित्याद्याभिः कुलौघान् स्थिरचरभे-
दसमूहान् सृजतोऽस्य दक्षस्य दौहित्रो दितेः पुत्रस्त्वष्ट तत्सूनुस्त्वाष्ट्रो विश्वरूपः ।
सः त्वत्स्तोत्रेण नारायणात्मकेन वर्मणा वर्मितं कृतरक्षम् इन्द्रम् आजौ देवासुरयुद्धे
अजापयद् [^+]जयमकरोत् ॥ ३ ॥
 
अथ वृत्रवधप्रस्तावाय प्राग्जन्मकथामाह--
 
प्राक् शूरसेनविषये किल चित्रकेतुः
पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् ।
लब्ध्वैकपुत्रमथ तत्र हते सपत्नी-
सङ्घैरमुह्यदवशस्तव माययासौ ॥ ४ ॥
 
प्रागिति । अङ्गिरसः प्रभावात् तत्कृतयज्ञोच्छिष्टप्राशनेन ज्येष्ठभार्यायामेकं
पुत्रं लब्ध्वा तत्र तस्मिन् पुत्रे सपत्नीसङ्घेर्हते ॥ ४ ॥
 
तं नारदस्तु सममङ्गिरसा दयालुः
सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् ।
कस्यास्मि पुत्र इति तस्य गिरा विमोहं
त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ ५ ॥
 
तमिति । अङ्गिरसा समं सह सुतस्य मृतस्य जीवं योगबलेनोपदर्श्य दर्श-
यित्वा अहं कस्य पुत्रोऽस्मीति तस्य गिरा नृपतेर्विमोहं त्यक्त्वा ॥ ५ ॥
 
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा
तोषाय शेषवपुषो ननु ते तपस्यन् ।
 
[^+] जयन्तं प्रयोजितवान् ।