This page has been fully proofread once and needs a second look.

११२
 
नारायणीये
 
षष्ट्या ततो दुहितृभिः सृजत: कुलौघान्

दौहित्रस्तुसूनुरथ तस्य स विश्वरूपः ।

त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ
 

देव ! त्वदीयमहिमा खलु सर्वजैत्रः ॥ ३ ॥
 

 
षष्टचेट्येति । ततः षष्ट्या दुहितृभिरंदितिदित्याद्याभिः कुलौघान् स्थिरचरभे-

दसमूहान् सृजतोऽस्य दक्षस्य दौहित्रो दितेः पुत्रस्त्वष्ट तत्सूनुस्त्यावाष्ट्रो विश्वरूपः ।

सः त्वत्स्तोत्रेण नारायणात्मकेन वर्मणा र्मितं कृतरक्षम् इन्द्रम् आजौ देवासुरयुद्धे

अजापयद् [^+]जयमकरोत् ॥ ३ ॥
 

 
अथ वृत्रवधप्रस्तावाय प्राग्जन्मकथामाह
 
--
 
प्राक् शूरसेनविषये किल चित्रकेतुः

पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् ।

लब्ध्वैक पुत्रमथ तत्र हते सपत्नी-

सङ्घैर
मुह्यदवशस्तव माययासौ ॥ ४ ॥
 

 
प्रागिति । अङ्गिरसः प्रभावात् तत्कृतयज्ञोच्छिष्टप्राशनेन ज्येष्ठभार्यायामेकं

पुत्रं लब्ध्वा तत्र तस्मिन् पुत्रे सपत्नीसङ्घेर्हते ॥ ४ ॥
 

 
तं नारदस्तु सममङ्गिरसा दयालुः

सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् ।

कस्यास्मि पुत्र इति तस्य गिरा विमोहं
 

त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ ५ ॥
 
[स्कन्धः -
 

 
तमिति । अङ्गिरसा समं सह सुतस्य मृतस्य जीवं योगबलेनोपदर्श्य दर्श-

यित्वा अहं कस्य पुत्रोऽस्मीति तस्य गिरा नृपतेर्विमोहं त्यक्त्वा ॥ ५ ॥
 

 
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा

तोपाषाय शेषवपुषो ननु ते तपस्यन् ।
 

 
[^
+] जयन्तं प्रयोजितवान् ।