This page has been fully proofread once and needs a second look.

दशकम् - २३]
 
चित्रकेतूपाख्यानम् ।
 
भक्तेषु भवद्भिर्न गम्यतां भगवद्भक्ताः परिहरणीया युष्माभिरित्युच्चकैरतिनिर्बन्धेन

स्वभृत्यानशिशिक्षत् शिक्षितवान् । तादृशभक्तवात्सल्ययुक्तस्त्वं पाहि ॥ ११ ॥

 
इत्यजामिलोपाख्यानं द्वाविंशं दशकं सैकम् ।
 

 
एवमजामिलदृष्टान्तेन नृणामनुग्रहमुक्त्वा स्वर्गिणां भगवदनुग्रहं दर्शयितुं
 

दक्षकथामारभते
 
१११
 
--
 
प्राचेतसस्तु भगवन्नपरोऽपि दक्ष-

स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।

आविर्भूविथ तदा लसदष्टवाहु-

स्तस्मै वरं ददि तां च वधूमसिक्कीनीम् ॥ १ ॥
 

 
प्राचेतस इति । प्राचीनबर्हिषः पुत्रा दश प्रचेतसः, तेषां पुत्र: प्राचे-

तसो दक्षः । अपरो ब्रह्मपुत्राद् दक्षादन्यः । स मनसैवेमाः प्रजाः सृष्ट्वा पुनस्तद्वि-

वृद्धिका मस्त्वत्सेवनं व्यधित कृतवान् । तंत्वं च वरं त्वत्तः प्रभृति व्यवायधर्मेण

प्रजासर्गो भविष्यतीत्येवं रूपं, तां पञ्चजनदुहितरम् असिक्कींनीं वधूं भार्थीथां

ददिथ दत्तवान् ॥ १ ॥
 

 
तस्यात्मजास्त्वयुतमीश ! पुनः सहस्रं

श्रीनारदस्य वचसा तव मार्गमापुः ।

नैकत्रवासमृये मुमुचे स शापं

भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥ २ ॥
 

 
तस्येति । तस्य दक्षस्य हर्यश्वसंज्ञा अयुतमात्मजा आसन् । पुनः शब-

लाश्वसंज्ञाः सहस्रं च सुता आसन् । ते सर्वेऽपि पितुरादेशात् सर्गवृद्धये तपः

कुर्वन्तः श्रीनारदस्य वचसा निवृत्तिमार्गोपदेशरूपेण तव मार्गं मोक्षमापुः प्राप्त-

वन्तः । स दक्षः क्रुद्धो मुनये श्रीनारदाय नैकत्रवासं सदासञ्चारित्वं शापं मुमुचे ।

ऋषिस्तु भक्तोत्तमत्वेन तमनुग्रहमेव मेने ॥ २ ॥