This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - ६
 
अयं च मरणभयाकुलः सन् हरिनामोच्चारितवान्, अत इतः परं न भवद्द-

ण्डनमर्हतीत्याह--
११०
 

 
अनेन भो ! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता ।

यदग्रहीन्नाम भयाकुलो हरेरिति प्रभो ! त्वत्पुरुषा बभाषिरे ॥ ८ ॥
 

 
ननु नासौ म्रियमाणो हरिनामोच्चारितवान्, किन्तु पुत्रं तन्नामानमाजुहावैव ।

अतो न पापक्षय इत्याशङ्कयाह-
क्याह--
 
नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृशः ।

यथाग्निरेधांसि यथौषधं गदानिति प्रभो! त्वत्पुरुषा भाषिरे ॥ ९ ॥
 

 
नृणामिति । इदं भगवन्नाम कीर्तितं सदशेषाघौघहरं चेति धिया नामो-

च्चारणीयम् । अतोऽन्यथाबुद्ध्यापि मुकुन्दकीर्तनमघौघान् दहति, दहनकणस्तूल-

पिण्डसञ्चयमिबोवोन्मूलयति । कथमस्य तादृशं सामर्थ्यमिति नानुयोजनीयम् ।

नाम्नो महिम्नः श्रूयमाणत्वाद् दृष्टत्वाच्चेत्याह--महिमेति । अस्य नाम्नस्तादृशोऽप-

रिच्छेद्यो महिमा विद्यते । तेषां सन्देहहानाय सदृष्टान्तमाह - --यथेति । बालादिना

अबुद्ध्या निक्षिप्तोऽग्निः अबुद्ध्योपयुक्त मौषधं च यथा ॥ १ ॥
 

 
इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते ।

भवत्स्मृतितिं कञ्चन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥ १० ॥
 
-
 

 
इतीति । इतीरितैः प्रतिबोधितैर्याम्यभटैरपासृतेऽपसरणे कृते सति भवद्भ-

टानां गणे समूहे तिरोहिते अन्तर्हिते च सति असावजामिलो गङ्गाद्वारे कस्मिंश्चिद्

देवसदने स्थित्वा कञ्चन कालं भवत्स्मृतिमाचरन् समाधिजये सति प्रादुर्भूतैस्तैरेव

भवत्पार्षदैर्लब्धसारूप्यो विमानेन भवत्पदं वैकुण्ठं प्रापि अनीयत ॥ १० ॥
 

 
स्वकिङ्करावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति ।

स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव! वातालयनाथ! पाहि माम् ॥ ११ ॥
 

 
स्वेति । यमकिकरास्तु स्वामिने सर्वे निवेदयामासुः । यमस्तु स्वकिङ्करा-
स्तु स्वामिने सर्वं निवेदयामासुः । यमस्तु स्वकिङ्करा-
णामावेदनेन शङ्कितः स्वभृत्यापराध: स्वस्मिन्नपि स्यादिति भीतः सन् त्वदङ्घ्रि-