2023-02-16 08:52:15 by ambuda-bot
This page has not been fully proofread.
अथ पष्ठस्कन्धपरिच्छेदः ।
कृतेऽपि पापे भक्तानां यातना नैव नारकी ।
इति षष्टगतो विष्णोः स्तूयतेऽनुग्रहोऽधुना ॥
अथाजामिलोपाख्यानमारभते अजामिलेत्येकादशभिः--
अजामिलो नाम महीसुरः पुरा चरन् विभो ! धर्मपथान् गृहाश्रमी ।
गुरोगिंरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥ १ ॥
अजामिल इति । पुराजामिलो नाम अजामिमकुलीनां स्त्रियं लात्यादत्त
इत्यजामिल इति प्रसिद्धः कश्चिद् महीसुरो गृहाश्रमी स्वाश्रमोचितान् धर्मपथान्
प्रवृत्तिनिवृत्तिमार्गान् चरन् अनुतिष्ठन् गुरोगिरा पितुर्निदेशन फलपुष्पसमित्कुशा-
नाहर्तुं काननमेत्य सुवृष्टमतिशयेन धृष्टं मिथ्याविलासादिभिः परमतिवञ्चनसमर्थ
शीलं यस्याः, मदाकुलां मधुमदखेलगमनां काञ्चित् कुलटां पुंश्चलीं दृष्टवान् ॥ १॥
स्वतः प्रशान्तोऽपि तदाहताशयः स्वधर्ममुत्सृज्य तथा समारमन् ।
अधर्मकारी दशमी भवन् पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ २ ॥
स्वत इति । ततश्च स्वतः प्रशान्तोऽप्यसौ तयाहृत आशयो यस्य स तथा
स्वधर्मं सहधर्मचारिणीं चोत्सृज्य तथा सह समारमन् तस्याः कुडुम्बभरणायाध-
र्मकारी बभूव । पुनश्च दशमी भवन् जरठः सन् भवन्नामयुते नारायणाह्वये सुते
बालके दशमपुत्रे रतिमतिस्नेहं दधौ ॥ २ ॥
स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया ।
पुरा मनाक् त्वत्स्मृतिवासनावलाज्जुहाव नारायणनामकं सुतम् ॥ ३ ॥
स इति । मृत्युकाले मरणसमये मनाग् ईषत् त्वत्स्मृतेर्भगवदुपासनाया
या वासना संस्कारस्तद्वलाद् नारायणनामकं सुतं जुहाव नारायण ! इत्याजु-
हाव ॥ ३ ॥
दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् ।
पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥ ४ ॥