This page has been fully proofread once and needs a second look.

अथ ष्ठस्कन्धपरिच्छेदः ।
 

 
कृतेऽपि पापे भक्तानां यातना नैव नारकी ।

इति षष्टगतो विष्णोः स्तूयतेऽनुग्रहोऽधुना ॥

 
अथाजामिलोपाख्यानमारभते अजामिलेत्येकादशभिः--

 
अजामिलो नाम महीसुरः पुरा चरन् विभो ! धर्मपथान् गृहाश्रमी ।

गुरोगिंर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥ १ ॥
 

 
अजामिल इति । पुराजामिलो नाम अजामिमकुलीनां स्त्रियं लात्यादत्त

इत्यजामिल इति प्रसिद्धः कश्चिद् महीसुरो गृहाश्रमी स्वाश्रमोचितान् धर्मपथान्

प्रवृत्तिनिवृत्तिमार्गान् चरन् अनुतिष्ठन् गुरोर्गिरा पितुर्निदेशेन फलपुष्पसमित्कुशा-

नाहर्तुं काननमेत्य सुवृधृष्टमतिशयेन धृष्टं मिथ्याविलासादिभिः परमतिवञ्चनसमर्
थं
शीलं यस्याः, मदाकुलां मधुमदखेलगमनां काञ्चित् कुलटां पुंश्चलीं दृष्टवान् ॥ १॥
 

 
स्वतः प्रशान्तोऽपि तदाहताशयः स्वधर्ममुत्सृज्य तथा समारमन् ।

अधर्मकारी दशमी भवन् पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ २ ॥
 

 
स्वत इति । ततश्च स्वतः प्रशान्तोऽप्यसौ तयाहृत आशयो यस्य स तथा

स्वधर्मं सहधर्मचारिणीं चोत्सृज्य तथाया सह समारमन् तस्याः कुडुम्बभरणायाध-

र्मकारी बभूव । पुनश्च दशमी भवन् जरठः सन् भवन्नामयुते नारायणाह्वये सुते

बालके दशमपुत्रे रतिमतिस्नेहं दधौ ॥ २ ॥
 

 
स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया ।

पुरा मनाक् त्वत्स्मृतिवासनालाज्जुहाव नारायणनामकं सुतम् ॥ ३ ॥
 

 
स इति । मृत्युकाले मरणसमये मनाग् ईषत् त्वत्स्मृतेर्भगवदुपासनाया

या वासना संस्कारस्तद्लाद् नारायणनामकं सुतं जुहाव नारायण ! इत्याजु-

हाव ॥ ३ ॥
 

 
दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् ।

पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥ ४ ॥