This page has not been fully proofread.

१०७
 
जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् ।
श्रीति । साङ्ख्यं प्रकृतिपुरुष विवेकज्ञानं योगोऽष्टाङ्गः, ताभ्यां नाते-
दशकम् - २१]
 
भिश्च ॥ ९ ॥
 
इमं जम्बूद्वीपं परितः क्रमात् प्लक्षशाल्मलिकुश क्रौञ्चशाकपुष्करनामानः षड्
द्वीपाः । तत्र क्रमादर्केन्दुवयम्बुवायुब्रह्मरूपेण तत्रत्या भगवन्तं भजन्तीत्याह-
प्लाक्षेऽर्क
रूपमयि शाल्मल इन्दुरूपं
 
द्वीपे भजन्ति कुशनामनि वह्निरूपम् ।
क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके
 
त्वां ब्रह्मरूपमयि पुष्करनानि लोकाः ॥ १० ॥
अथ ज्योतिरनीकात्मकस्य भगवत उपासना प्रकारमाह-
सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च
पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः ।
त्वं शिंशुमारवपुषा महतामुपास्यः
 
सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ! ॥ ११ ॥
सर्वैरिति । उडुप्रकरैरश्चिन्यःदिभिः ग्रहैः सूर्यादिभिर्यथाक्रमं पुच्छाद्यवय
बेषूपासकैरभिकल्प्यमानैरुपलक्षितस्त्वं शिशुमारवपुषा अवाक्शिरसः कुण्डलीभूत-
शरीरस्य शिंशुमारस्य बपुरिव वपुर्यस्य तद्रूपेण महतां महद्भिः सन्ध्यासु त्रिका-
"
 
लमुपास्यः ॥ ११ ॥
 
अथ प्रपञ्चस्योद्धारकं शेषमूर्ति स्तौति -
पातालमूलभुवि शेषतनुं भवन्तं
लोलैककुण्डलविराजिसहस्त्रशीर्षम् ।
नीलाम्बरं धृतहलं भुजगाङ्गनाभि-
र्जुष्टं भजे हर गदान् गुरुगेहनाथ ! ॥ १२ ॥ २२ ॥
इति जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् एकविंशं दशकं सद्विकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
 
भक्तप्रियाख्यायां
पञ्चमस्कन्धपरिच्छेदः ।
 
आदितः श्लोकसङ्ख्या २२१.