This page has been fully proofread once and needs a second look.

१०७
 
जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् ।
श्रीति । साङ्ख्यं प्रकृतिपुरुष विवेकज्ञानं, योगोऽष्टाङ्गः, ताभ्यां नाते-
दशकम् - २१]
 
नुति-
भिश्च ॥ ९ ॥
 

 
इमं जम्बूद्वीपं परितः क्रमात् प्लक्षशाल्मलिकुश क्रौञ्चशाकपुष्करनामानः षड्

द्वीपाः । तत्र क्रमादर्केन्दुवह्न्यम्बुवायुब्रह्मरूपेण तत्रत्या भगवन्तं भजन्तीत्याह-
-
 
प्लाक्षेऽर्क
रूपमयि शाल्मल इन्दुरूपं
 

द्वीपे भजन्ति कुशनामनि वह्निरूपम् ।

क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके
 

त्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥ १० ॥

 
अथ ज्योतिरनीकात्मकस्य भगवत उपासना प्रकारमाह-
-
 
सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च

पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः ।

त्वं शिंशुमारवपुषा महतामुपास्यः
 

सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ! ॥ ११ ॥

 
सर्वैरिति । उडुप्रकरैरश्चिन्यःविन्यादिभिः ग्रहैः सूर्यादिभिर्यथाक्रमं पुच्छाद्यवय
बे
<flag>-</flag>
वे
षूपासकैरभिकल्प्यमानैरुपलक्षितस्त्वं शिशिंशुमारवपुषा अवाक्शिरसः कुण्डलीभूत-

शरीरस्य शिंशुमारस्य पुरिव वपुर्यस्य, तद्रूपेण महतां महद्भिः सन्ध्यासु त्रिका-
"
 

लमुपास्यः ॥ ११ ॥
 

 
अथ प्रपञ्चस्योद्धारकं शेषमूर्ति स्तौति -
--
 
पातालमूलभुवि शेषतनुं भवन्तं

लोलैककुण्डलविराजिसहस्त्रशीर्षम् ।

नीलाम्बरं धृतहलं भुजगाङ्गनाभि-

र्जुष्टं भजे हर गदान् गुरुगेहनाथ ! ॥ १२ ॥ २२ ॥

 
इति जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् एकविंशं दशकं सद्विकम् ।

 
इति नारायणीयस्तोत्रव्याख्यायां
 

 
भक्तप्रियाख्यायां

पञ्चमस्कन्धपरिच्छेदः ।
 

 
आदितः श्लोकसङ्ख्या २२१.