This page has not been fully proofread.

१०६
 
नारायणीये
 
भक्तैकवत्सलममत्सरहृत्सु भान्तं
 
मत्स्याकृतिं भुवननाथ ! भजे भवन्तम् ॥ ५ ॥
 
ध्यमानम् ॥ ५ ॥
 
रम्य इति । रम्यकवर्षनाथेन वैवस्वतेन मनुवर्येण सपर्यमाणमारा-
[स्कन्धः-५
 
वर्ष हिरण्मयसमाढयमौत्तराह-
मासीनमद्रिभृतिकर्मठकामठाङ्गम् ।
 
संसेवते पितृगणनवरोऽर्यमायं
 
तं त्वां भजामि भगवन् ! परचिन्मयात्मन् ! ॥ ६ ॥
वर्षमिति । औत्तराहम् उत्तरदिग्भवम् । अद्रिधृतिकर्मठम् अमृतमथने
मन्दराद्विधारणौयिकं कामठं कौर्मनझं यस्य । पर चिन्मयात्मन् ! विशुद्धज्ञान-
स्वरूप ! ॥ ६ ॥
 
किञ्चोत्तरेषु कुरुषु प्रियया धरण्या
संसेवितो महितमन्त्रनुतिमभेदैः ।
दंष्ट्राग्रसृष्टघनपृष्ठगरिष्ठवर्मा
 
त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ! ॥ ७ ॥
 
-
 
किञ्चेति । दंष्ट्राग्रेण श्रृष्टं घनपृष्ठं येन तादृशं गरिष्ठमत्युन्नतं च वर्ष्म स्व-
रूपं यस्य । विज्ञैर्ज्ञानिभिर्नुता स्तुता यज्ञवराहरूपा मूर्तिर्यस्य ॥ ७ ॥
याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
संसेवितो हनुमता दृढभक्तिभाजा ।
सीताभिरामपरमाद्भुतरूपशाली
 
१. 'रव' क. पाठः,
 
रामात्मकः परिलसन् परिपाहि विष्णो ! ॥ ८ ॥
याम्यामिति । याम्यां दिशं भजति इलावृतसमनन्तरंदेशवर्तिनि ॥ ८ ॥
श्रीनारदेन सह भारतखण्ड मुख्यै-
स्त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः ।
आकल्पकालमिह साधुजनाभिरक्षी
 
नारायणो नरसखः परिपाहि भूमन् ! ॥ ९ ॥