This page has been fully proofread once and needs a second look.

१०६
 
नारायणीये
 
भक्तैकवत्सलममत्सरहृत्सु भान्तं
 

मत्स्याकृतिं भुवननाथ ! भजे भवन्तम् ॥ ५ ॥
 
ध्यमानम् ॥ ५ ॥
 

 
रम्य इति । रम्यकवर्षनाथेन वैवस्वतेन मनुवर्येण सपर्यमाणमारा-
[स्कन्धः-

ध्यमानम् ॥

 
वर्ष

 
वर्षं
हिरण्मयसमाह्वयमौत्तराह-

मासीनमद्रिभृधृतिकर्मठकामठाङ्गम् ।
 

संसेवते पितृगणप्रवरोऽर्यमायं
 

तं त्वां भजामि भगवन् ! परचिन्मयात्मन् ! ॥ ६ ॥

 
वर्षमिति । औत्तराहम् उत्तरदिग्भवम् । अद्रिधृतिकर्मठम् अमृतमथने

मन्दराद्विरिधारणौयिकं कामठं कौर्मनझं यस्य । पर मङ्गं यस्य । परचिन्मयात्मन् ! विशुद्धज्ञान-

स्वरूप ! ॥ ६ ॥
 

 
किञ्चोत्तरेषु कुरुषु प्रियया धरण्या

संसेवितो महितमन्त्रनुतिमभेदैः ।

दंष्ट्राग्रसृघृष्टघनपृष्ठगरिष्ठवर्मा
 
ष्मा
त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ! ॥ ७ ॥
 
-
 

 
किञ्चेति । दंष्ट्राग्रेण श्रृघृष्टं घनपृष्ठं येन तादृशं गरिष्ठमत्युन्नतं च वर्ष्म स्व-

रूपं यस्य । विज्ञैर्ज्ञानिभिर्नुता स्तुता यज्ञवराहरूपा मूर्तिर्यस्य ॥ ७ ॥

 
याम्यां दिशं भजति किम्पुरुषाख्यवर्षे

संसेवितो हनुमता दृढभक्तिभाजा ।

सीताभिरामपरमाद्भुतरूपशाली
 
१. 'रव' क. पाठः,
 

रामात्मकः परिलसन् परिपाहि विष्णो ! ॥ ८ ॥

 
याम्यामिति । याम्यां दिशं भजति इलावृतसमनन्तरंर[^१]देशवर्तिनि ॥ ८ ॥

 
श्रीनारदेन सह भारतखण्ड मुख्यै-

स्त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः ।

आकल्पकालमिह साधुजनाभिरक्षी
 

नारायणो नरसखः परिपाहि भूमन् ! ॥ ९ ॥
 

 
[^१]. 'रव' क. पाठः