2023-02-16 08:52:14 by ambuda-bot
This page has not been fully proofread.
१०५
अथ लोकरक्षायै तत्तद्भूखण्डेषु तत्तद्रूपेण सन्निदधानं भगवन्तं स्तौति —
मध्योद्भवे भुव इलाकृतनाम्नि वर्षे
गौरीप्रधानवनिताजनमात्रभाजि ।
शर्वेण मन्त्रनुतिभिः समुपास्यमानं
सङ्कर्षणात्मकमधीश्वर ! संश्रये त्वाम् ॥ १ ॥
दशकम् – २१] जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् ।
मध्योद्भव इति । भुवो मध्यं जम्बूद्वीपः, तन्मध्यभवे वर्षे खण्डे । गौरी-
शापेन पुरुषागम्यतयात्र शर्व एक एव पुरुषः । अतो गौरीप्रधानं वनिताजनमा-
त्रमेव भजतीति तथा । शर्वेण मन्त्रैर्नुतिभिश्च ॥ १ ॥
भद्राश्वनामक इलाहृतपूर्ववर्षे
भद्रश्रवोभिर्ऋषिभिः परिणूयमानम् ।
कल्पान्तगूढ निगमोद्धरणप्रवीणं
ध्यायामि देव ! हृयशीर्षतनुं भवन्तम् ॥ २ ॥
ध्यायामि दक्षिणगते हरिवपवर्षे
प्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् ।
उत्तुङ्गशान्तभवलाकृतिमेकशुद्ध-
ज्ञानप्रदं नरहरिं भगवन् ! भवन्तम् ॥ ३ ॥
ध्यायामीति । एकं शुद्धं निरुपाधिकं ज्ञानं ददातीति तथा ॥ ३ ॥
वर्षे प्रतीचि ललितात्मनि केतुमाले
लीलाविशेषललितस्मितशोभनाङ्गम् ।
लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं
तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ ४ ॥
वर्ष इति । धृतकामतनुम् अङ्गीकृतकामदेवस्वरूपम् ॥ ४ ॥
रम्येऽप्युदीचि खलु रम्यकनाम्नि वर्षे
तद्वर्षनाथमनुवर्यसपर्यमाणम् * ।
* 'सपर पूजायामि'ति कण्ड्वादः कर्मणि शानचि सपर्यमाणशब्दः ।