2023-03-21 16:00:46 by Padmavati
This page has been fully proofread once and needs a second look.
मध्योद्भवे भुव इला
गौरीप्रधानवनिताजनमात्रभाजि ।
शर्वेण मन्त्रनुतिभिः समुपास्यमानं
सङ्कर्षणात्मकमधीश्वर ! संश्रये त्वाम् ॥ १ ॥
दशकम् – २१] जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् ।
मध्योद्भव इति । भुवो मध्यं जम्बूद्वीपः, तन्मध्यभवे वर्षे खण्डे । गौरी-
शापेन पुरुषागम्यतयात्र शर्व एक एव पुरुषः । अतो गौरीप्रधानं वनिताजनमा-
त्रमेव भजतीति तथा । शर्वेण मन्त्रैर्नुतिभिश्च ॥ १ ॥
भद्राश्वनामक इला
भद्रश्रवोभिर्ऋषिभिः परिणूयमानम् ।
कल्पान्तगूढ
ध्यायामि देव !
ध्यायामि दक्षिणगते हरिव
प्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् ।
उत्तुङ्गशान्त
ज्ञानप्रदं नरहरिं भगवन् ! भवन्तम् ॥ ३ ॥
ध्यायामीति । एकं शुद्धं निरुपाधिकं ज्ञानं ददातीति तथा ॥ ३ ॥
वर्षे प्रतीचि ललितात्मनि केतुमाले
लीलाविशेषललितस्मितशोभनाङ्गम् ।
लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं
तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ ४ ॥
वर्ष इति । धृतकामतनुम् अङ्गीकृतकामदेवस्वरूपम् ॥ ४ ॥
रम्येऽप्युदीचि खलु रम्यकनाम्नि वर्षे
तद्वर्षनाथमनुवर्यसपर्यमाणम्
[^*] 'सपर पूजायामि'ति कण्ड्वादः कर्मणि शानचि सपर्यमाणशब्दः ।