2023-02-16 08:52:14 by ambuda-bot
This page has not been fully proofread.
१०४
नारायणीये
[स्कन्धः
जितेन्द्रदत्तां कमनीं
जयन्तीमथोद्वहन्नात्मरताशयोऽपि ।
अजीजनत् तत्र शतं तनुजान् येषां क्षितीशो भरतोऽग्रजन्मा ॥ ६ ॥
जितेति । योगशक्त्या जितेनेन्द्रेण दत्ताम् । आत्मरतः आत्मनः श्रीहरु-
पासन एवोत्सुक आशयोऽन्तःकरणं यस्य ॥ ६ ॥
नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् ।
सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद् भूसुरभूयमीयुः ॥ ७ ॥
नवेति । भारतवर्षखण्डान् कुशावर्तेलावर्तब्रह्मावर्तमलयकेतुभद्रसेनविदर्भ-
कीकटादीन् । सैका अशीतिरेकसहिता अशीतिः । भूसुरभूयं ब्राह्मणत्वम् ॥ ७॥
उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ ८ ॥
उक्त्वेति । स्वयमृषभदेवः । सुतेभ्यो भरतादिभ्यः । परमहंसानां वृत्तिं गतो
जडोन्मत्तपिशाचवच्चरणमधाः अकरोः ॥ ८ ॥
परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः ।
विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ ९ ॥
-
परेति । भवान् परात्मभूतो ब्रह्मभूतः, तथापि परेभ्य उपदेशं कुर्वन्
ब्रह्मोपदेशं वा । स्वस्य पारमहंस्यवृत्त्यैव परोपदेशो न मुखत इत्याह - सर्वेति ।
सर्वनिरस्यमानोऽवधूतः । विकारहीनः शरीराभिमाननिवृत्तेः कर्तृत्वभोक्तृत्वसुखदुःखा
दिरहितः । तत्र हेतुः अहीनात्मरसे परमानन्दानुभवे अभिलीनः तदैक्यं प्राप्तो जी-
वन्मुक्त इति यावत् ॥ ९॥
शयुवतं गोमृगकाकचर्या चिरं चरन्नाप्य परं स्वरूपम् ।
दवाहृताङ्गः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ! ॥ १० ॥
शय्विति । शयुव्रतमाजगरं व्रतं गोपुगकाकचर्या च चिरं चरन् शयुवद -
नुद्यमः सन् गोमृगका कबच्छु यशुद्धिविधिनिषेधादेर्निवृत्तः, केवलं देहस्वभावात्
सञ्चरन्नित्यर्थः । परं स्वरूपमाप्य कुटकाचले दवाहताङ्गो दवामिदग्धशरीरः
पपातेत्यर्थः ॥ १० ॥
इति ॠपभयोगिचरितवर्णनं विशंदशकम् ।