This page has been fully proofread once and needs a second look.

१०४
 
नारायणीये
 
[स्कन्धः
 
जितेन्द्रदत्तां कमनीं
 
जयन्तीमथोद्वहन्नात्मरताशयोऽपि ।
 

अजीजनत् तत्र शतं तनुनूजान् येषां क्षितीशो भरतोऽग्रजन्मा ॥ ६ ॥

 
जितेति । योगशक्त्या जितेनेन्द्रेण दत्ताम् । आत्मरतः आत्मनः श्रीहरेरु-

पासन एवोत्सुक आशयोऽन्तःकरणं यस्य ॥ ६ ॥
 

 
नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् ।

सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद् भूसुरभूयमीयुः ॥ ७ ॥

 
नवेति । भारतवर्षखण्डान् कुशावर्तेलावर्तब्रह्मावर्तमलयकेतुभद्रसेनविदर्भ-

कीकटादीन् । सैका अशीतिरेकसहिता अशीतिः । भूसुरभूयं ब्राह्मणत्वम् ॥ ७॥

 
उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।

स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ ८ ॥

 
उक्त्वेति । स्वयमृषभदेवः । सुतेभ्यो भरतादिभ्यः । परमहंसानां वृत्तिं गतो

जडोन्मत्तपिशाचवच्चरणमधाः अकरोः ॥ ८ ॥
 

 
परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः ।

विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ ९ ॥
 
-
 

 
परेति । भवान् परात्मभूतो ब्रह्मभूतः, तथापि परेभ्य उपदेशं कुर्वन्

ब्रह्मोपदेशं वा । स्वस्य पारमहंस्यवृत्त्यैव परोपदेशो न मुखत इत्याह - -सर्वेति ।

सर्वनिरस्यमानोऽवधूतः । विकारहीनः शरीराभिमाननिवृत्तेः कर्तृत्वभोक्तृत्वसुखदुःखा
<fix>-</fix>
दिरहितः । तत्र हेतुः अहीनात्मरसे परमानन्दानुभवे अभिलीनः तदैक्यं प्राप्तो जी-

वन्मुक्त इति यावत् ॥ ९॥
 

 
शयुव्रतं गोमृगकाकचर्यायां चिरं चरन्नाप्य परं स्वरूपम् ।
 

दवाहृताङ्गः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ! ॥ १० ॥

 
शय्विति । शयुव्रतमाजगरं व्रतं गोपुपृगकाकचर्यायां च चिरं चरन् शयुवद -

नुद्यमः सन् गोमृगका च्छु द्ध्यशुद्धिविधिनिषेधादेर्निवृत्तः, केवलं देहस्वभावात्

सञ्चरन्नित्यर्थः । परं स्वरूपमाप्य कुटकाचले दवाहृताङ्गो दवामिग्निदग्धशरीरः

पपातेत्यर्थः ॥ १० ॥
 

 
इति ॠभयोगिचरितवर्णनं विविंशं दशकम् ।