This page has not been fully proofread.

अथ पञ्चमस्कन्धपरिच्छेदः ।
 
लोकानां प्राक् स्वसृष्टानां मर्यादापालनात्मिका ।
लीला स्थानसमाख्याता हरेः प्रस्तूयतेऽधुना ॥
 
इदानीं पञ्चमस्कन्धाश्रयणेन भगवतो मर्यादापालनात्मिकां लीलामभिदधानः
प्रथममृषभदेवावतारकथनाय तत्पूर्वपरम्पर माह-
प्रियव्रतस्य प्रियपुत्र भूतादाशीधराजा दुदितो हि नाभिः ।
त्वां दृष्टवानिष्टद मिष्टिमध्ये तवैव तुष्टयै कृतयज्ञकर्मा ॥ १ ॥
 
प्रियव्रतस्येति । स्वायम्भुवस्य मनोर्ज्येष्ठपुत्रः प्रियव्रतः । तस्य बर्हिष्मत्यां
दश पुत्रा अभवन्। तेषु ज्येष्ठ आग्नीधो नाम राजा स्वसमानशीलतया पितुः प्रियः ।
तस्मात् पूर्वचित्तिनामाप्सरसि नाभिर्नाम राजा उदित उत्पन्नः । इष्टिमध्ये
यज्ञमध्ये ॥ १ ॥
 
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्येऽहमिति वाणस्तिरोदधा वर्हिषि विश्वमूर्ते ! ॥ २ ॥
 
अभित इति । स्वतुल्यमश्विरतुल्यम् । बर्हिषि अग्नौ तिरोधाः ॥ २ ॥
 
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूर्ऋषभाभिधानः ।
अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ ३ ॥
 
नाभीति । मेरुदेव्यां मेरुसुतायाम् । अलोकसामान्यैरमानुषैर्गुणैः प्रभावैश्च
प्रभावित उत्पादितः अशेषजनप्रमोदो येन ॥ ३ ॥
 
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या ।
तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ ४ ॥
त्वयीति । आनन्दपदं निरतिशय सुखस्थानं ते पदं वैकुण्ठम् ॥ ४ ॥
इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद् व्यदधाः सुवर्षम् ॥ ५ ॥