This page has been fully proofread once and needs a second look.

अथ पञ्चमस्कन्धपरिच्छेदः ।
 

 
लोकानां प्राक् स्वसृष्टानां मर्यादापालनात्मिका ।

लीला स्थानसमाख्याता हरेः प्रस्तूयतेऽधुना ॥
 

 
इदानीं पञ्चमस्कन्धाश्रयणेन भगवतो मर्यादापालनात्मिकां लीलामभिदधानः

प्रथममृषभदेवावतारकथनाय तत्पूर्वपरम्परामाह-
-
 
प्रियव्रतस्य प्रियपुत्र भूतादाशीधग्नीध्रराजा दुदितो हि नाभिः ।

त्वां दृष्टवानिष्टद मिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ १ ॥
 

 
प्रियव्रतस्येति । स्वायम्भुवस्य मनोर्ज्येष्ठपुत्रः प्रियव्रतः । तस्य बर्हिष्मत्यां

दश पुत्रा अभवन्। तेषु ज्येष्ठ आग्नीधोध्रो नाम राजा स्वसमानशीलतया पितुः प्रियः ।

तस्मात् पूर्वचित्तिनामाप्सरसि नाभिर्नाम राजा उदित उत्पन्नः । इष्टिमध्ये

यज्ञमध्ये ॥ १ ॥
 

 
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः ।

स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा वर्हिषि विश्वमूर्ते ! ॥ २ ॥
 

 
अभिष्टुत इति । स्वतुल्य<fix>मी</fix>श्विरतुल्यम् । बर्हिषि अग्नौ तिरोधाः ॥ २ ॥
 

 
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूर्ऋषभाभिधानः ।

अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ ३ ॥
 

 
नाभीति । मेरुदेव्यां मेरुसुतायाम् । अलोकसामान्यैरमानुषैर्गुणैः प्रभावैश्च

प्रभावित उत्पादितः अशेषजनप्रमोदो येन ॥ ३ ॥
 

 
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या ।

तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ ४ ॥

 
त्वयीति । आनन्दपदं निरतिशय सुखस्थानं ते पदं वैकुण्ठम् ॥ ४ ॥

 
इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्नजनाभवर्षे ।

यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद् व्यदधाः सुवर्षम् ॥ ५ ॥