This page has not been fully proofread.

दशकम् – १९]
 
दक्षोत्पत्तिप्रसङ्गवर्णनम् ।
 
१०१
 
प्राचीनाग्रैः कुशैरास्तृतमिदं भूमण्डलमिति प्राचीनबर्हरिति नामास्याभृत् । स च
शतद्रुतौ भार्यायां प्रचेतसो नामेति प्रचेतस इति तुल्यनाम्नः सुतानजीजनत् ।
ते च सर्वे सुचेतसः । अत एव त्वत्करुणायाः प्राचीनबर्हिर्विषयाया अङ्कुरा-
निवेति ॥ १ ॥
 
पितु: सिसृक्षानिरतस्य शासनाद् भवत्तपस्यानिरता दशापि ते ।
पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ २ ॥
 
पितुरिति । सिसृक्षानिरतस्य प्रजासर्गकामस्य प्रजाः सृजतेति शासनात्
ते प्रचेतसो दशापि भवत्तपस्यायां निरताः ॥ २ ॥
 
अथ भगवान् रुद्रस्तत्रागत्य तेषां भगवत्स्तोत्रमुपदिदेशेत्याह
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद् भक्ततमस्तव स्तवम् ॥ ३ ॥
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान् वभूव कालो ध्रुववन्न शीघ्रता ॥ ४ ॥
स्तवमिति । भवानेव सुखं भवत्सुखं ब्रह्मानन्दः तस्यास्वादने रस आग्रहः ॥
तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ ५ ॥
 
-
 
तपोभिरिति । स यज्ञहिंसानिरतो वेनः पृथोर्जनकः पावितः दुरितनिवृ-
त्तिद्वारा नरकादुत्तारितः । तेषां पिता प्राचीनबर्हिरपि गृहयातेन नारदेन प्रदर्शित
उपदिष्ट आत्मा श्रीहरिर्यस्य, 'आप्तत्वाच्च प्रमातृत्वादात्मा हि परमो हरिरित्युक्त-
त्वात् । भवदात्मतां सायुज्यम् ॥ ५ ॥
 
अथ भक्तवात्सल्येनैव तेषां त्वं प्रादुरभूरित्याह-
कृपावलेनैव ततः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः ।
विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदश्चितयुतिः ॥ ६ ॥
प्रचेतसां तावद्याचतामपि त्वमेव कारुण्यभराद् वरानदाः ।
भवद्विचिन्तापि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ ७ ॥