This page has not been fully proofread.

ܘ ܘ ܐ
 
नारायणीये
 
सत्रस्थं मुनिनिवहं हितानि शंस-
नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ९ ॥
 
[स्कन्धः - ४
 
-
 
तत्तमिति । तेन विष्णुना दत्तं बरमेकामनपायिनीं भक्तिमुपलभ्यानन्तरं
गङ्गान्ते गङ्गायमुनयोर्मध्ये विहितं पदं स्थानं यस्य स तथा । तत्र वसन् कदापि
सत्रस्थं सत्रयागे प्राप्तं मुनीनां देवपित्रह्मर्षि राजषगां निवहं समूहं हितानि प्रवृत्ति-
निवृत्तिलक्षणं धर्मद्वयं शंसन् उपदिशन् तद्न्ते सनकमुखान् सनकसनन्दसनातन-
सनत्कुमारान् ऐक्षिष्ठा दृष्टवान् ॥ ९ ॥
 
विज्ञानं सनकमुखोदितं दधानः
 
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश ! सत्वरं मे
रोगौवं प्रशमय वातगेहवासिन् ! ॥ १० ॥
 
विज्ञानमिति । सनकमुखोदितं विज्ञानं ब्रह्मज्ञानं दधानः सम्यगवधार्य
स्वयं जगदनुग्रहायशीकृततत्त्वविग्रह त्वं स्वात्मानं स्वस्वरूपं परब्रह्मागमः अहं
ब्रह्मेत्यनुभूतवान् । पश्चाच्च बनान्तसेवी पुत्रे राज्यं न्यस्य वनं गतस्तपश्चरन् स्वयं
स्वात्मानमगमः प्राप्तवान् । परब्रह्ममात्रभुपतिष्ठसे स्म इति भावः ॥ १० ॥
 
इति पृथुचरितवर्णनम् अष्टादशं दशकम् ।
 
अथ प्राचीन बर्हिपश्चरितमारभते-
पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनवर्हिर्युवतौ शतद्रुतौ ।
प्रचेतसो नाम सुचेतसः सुतानजीजनत् त्वत्करुणा कुरानिव ॥ १ ॥
 
पृथोरिति । नप्ता पौत्रस्य पुत्रः । पृथोः पुत्रो विजिताश्वः, तत्पुत्रो हवि-
र्धानः, तत्पुत्रो बर्हिष्मदयमुच्यते । स च पृथुविस्तृतो धर्मो यस्य, यद्वा पृथोरिव
धर्मो यस्य सः पृथुधर्मा कर्मठ: कर्मशूरः, कर्मकाण्डे निष्णात इत्यर्थः । अत एव
 
१. 'मवात' क. पाठः