This page has been fully proofread once and needs a second look.

ܘ ܘ ܐ
 
नारायणीये
 
सत्रस्थं मुनिनिवहं हितानि शंस-

नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ९ ॥
 
[स्कन्धः - ४
 
-
 

 
तद्द
त्तमिति । तेन विष्णुना दत्तं रमेकामनपायिनीं भक्तिमुपलभ्यानन्तरं

गङ्गान्ते गङ्गायमुनयोर्मध्ये विहितं पदं स्थानं यस्य स तथा । तत्र वसन् कदापि

सत्रस्थं सत्रयागे प्राप्तं मुनीनां देवपित्र्षिब्रह्मर्षि राजषगांर्षीणां निवहं समूहं हितानि प्रवृत्ति-

निवृत्तिलक्षणं धर्मद्वयं शंसन् उपदिशन् तद्न्ते सनकमुखान् सनकसनन्दसनातन-

सनत्कुमारान् ऐक्षिष्ठा दृष्टवान् ॥ ९ ॥
 

 
विज्ञानं सनकमुखोदितं दधानः
 

स्वात्मानं स्वयमगमो वनान्तसेवी ।

तत्तादृक्पृथुवपुरीश ! सत्वरं मे

रोगौवंघं प्रशमय वातगेहवासिन् ! ॥ १० ॥
 

 
विज्ञानमिति । सनकमुखोदितं विज्ञानं ब्रह्मज्ञानं दधानः सम्यगवधार्य

स्वयं जगदनुग्रहायशीयाङ्गीकृतत्त्वविग्रह स्त्वं स्वात्मानं स्वस्वरूपं परब्रह्मागमः अहं

ब्रह्मेत्यनुभूतवान् । पश्चाच्च नान्तसेवी पुत्रे राज्यं न्यस्य वनं गतस्तपश्चरन् स्वयं

स्वात्मानमगमः प्राप्तवान् । परब्रह्ममात्रभुमु[^१]पतिष्ठसे स्म इति भावः ॥ १० ॥
 

 
इति पृथुचरितवर्णनम् अष्टादशं दशकम् ।
 

 
अथ प्राचीन बर्हिपश्चरितमारभते-
-
 
पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनर्हिर्युवतौ शतद्रुतौ ।

प्रचेतसो नाम सुचेतसः सुतानजीजनत् त्वत्करुणा ङ्कुरानिव ॥ १ ॥
 

 
पृथोरिति । नप्ता पौत्रस्य पुत्रः । पृथोः पुत्रो विजिताश्वः, तत्पुत्रो हवि-

र्धानः, तत्पुत्रो बर्हिष्मदयमुच्यते । स च पृथुर्विस्तृतो धर्मो यस्य, यद्वा पृथोरिव

धर्मो यस्य सः पृथुधर्मा कर्मठ: कर्मशूरः, कर्मकाण्डे निष्णात इत्यर्थः । अत एव
 

 
[^
]. 'मवातवति' क. पाठः