This page has not been fully proofread.

पृथुचरितवर्णनम् ।
 
९९
 
स्वर्णपात्रे सोमं दुदुहुः । असुराणां प्रह्लादो वत्सः अयः पात्र सुरा पयः,
गन्धर्वा मधु। पितरः कव्यम् । एवं द्रष्टव्यम् । सुरभितनूं गोरूपिणीमदूदुहः,
त्यच्छासनाद् दुदुहुरिति तात्पर्यम् ॥ ६ ॥
 
दशकम् - १८]
 
-
 
आत्मानं यजति मखैस्त्वयि त्रिधाम-
नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
 
हृत्वाश्वं तव तनयात् पराजितोऽभूत् ॥ ७ ॥
 
आत्मानमिति । हे त्रिधामन् ! विष्णो ! त्वयि पृथौ मखैरश्वमेधैरात्मा-
नं सर्वदेवमयं विष्णुं यजति सति शततमे शतसंख्याया अन्तिमे वाजिमे-
धयागे आरब्धे शतमखः इह जगत्यहमेक एवं शतक्रतुरित्यभिमानीन्द्रः
नीचवेषः पाषण्डवेषः सन्नेत्याचं हृत्वा तव तनयात् पृथुपुत्रादनेनैव कर्मणा बिजि -
ताश्वसंज्ञात् ॥ ७ ॥
 
देवेन्द्रं म्रुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनिवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
 
साक्षात् त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८ ॥
 
देवेन्द्रमिति । अनेन प्रकारेण नग्नरक्तपटजटाभस्मादिपापण्डवेषेण मुहुः
पुनः पुनः वाजिनमधं हरन्तं मुष्णन्तं तं देवेन्द्रं मुनिवराणां मण्डले समूहे वह्नौ
दक्षिणाग्नौ जुहूषौ वधार्थमाभिचारविधानेन होतुमिच्छति सति कमलभवे ब्रह्मणि
रुन्धाने 'तवैकोनशतक्रतुत्वेनालं, शतक्रतुश्च प्रीतो भवतु, हे पृथो ! तव ऋतु-
भिरलम्' इत्यागत्य प्रतिषेधं कुर्वति सति क्रतोः समाप्तौ जातायां त्वं पृथुः मधुरिपुं
विष्णुं साक्षाच्चाक्षुषतया ऐक्षथा दृष्टवान् । स्वयं स्वमित्यनेन पृथोरवतारत्व -
मुक्तम् ॥ ८ ॥
 
तदत्तं वरमुपलभ्य भक्तिमेकां
 
गङ्गान्ते विहितपदः कदापि देव ! ।
 
१. 'रपि वा' ख. पाठः,