This page has been fully proofread once and needs a second look.

पृथुचरितवर्णनम् ।
 
९९
 
स्वर्णपात्रे सोमं दुदुहुः । असुराणां प्रह्लादो वत्सः अयः पात्र सुरा पयः,

गन्धर्वा मधु। पितरः कव्यम् । एवं द्रष्टव्यम् । सुरभितनूं गोरूपिणीमदूदुहः,
त्य

त्व
च्छासनाद् दुदुहुरिति तात्पर्यम् ॥ ६ ॥
 
दशकम् - १८]
 
-
 

 
आत्मानं यजति मखैस्त्वयि त्रिधाम-

न्
नारब्धे शततमवाजिमेधयागे ।

स्पर्धालुः शतमख एत्य नीचवेषो
 

हृत्वाश्वं तव तनयात् पराजितोऽभूत् ॥ ७ ॥
 

 
आत्मानमिति । हे त्रिधामन् ! विष्णो ! त्वयि पृथौ मखैरश्वमेधैरात्मा-

नं सर्वदेवमयं विष्णुं यजति सति शततमे शतसंख्याया अन्तिमे वाजिमे-

धयागे आरब्धे शतमखः इह जगत्यहमेक एवं शतक्रतुरित्यभिमानीन्द्रः

नीचवेषः पाषण्डवेषः सन्नेत्याचंश्वं हृत्वा तव तनयात् पृथुपुत्रादनेनैव कर्मणा बिविजि -

ताश्वसंज्ञात् ॥ ७ ॥
 

 
देवेन्द्रं म्रुमुहुरि[^१]ति वाजिनं हरन्तं

वह्नौ तं मुनिवरमण्डले जुहूषौ ।

रुन्धाने कमलभवे क्रतोः समाप्तौ
 

साक्षात् त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८ ॥
 

 
देवेन्द्रमिति । अनेन प्रकारेण नग्नरक्तपटजटाभस्मादिपाण्डवेषेण मुहुः

पुनः पुनः वाजिनमधंश्वं हरन्तं मुष्णन्तं तं देवेन्द्रं मुनिवराणां मण्डले समूहे वह्नौ

दक्षिणाग्नौ जुहूषौ वधार्थमाभिचारविधानेन होतुमिच्छति सति कमलभवे ब्रह्मणि

रुन्धाने 'तवैकोनशतक्रतुत्वेनालं, शतक्रतुश्च प्रीतो भवतु, हे पृथो ! तव क्रतु-

भिरलम्' इत्यागत्य प्रतिषेधं कुर्वति सति क्रतोः समाप्तौ जातायां त्वं पृथुः मधुरिपुं

विष्णुं साक्षाच्चाक्षुषतया ऐक्षथा दृष्टवान् । स्वयं स्वमित्यनेन पृथोरवतारत्व -

मुक्तम् ॥ ८ ॥
 

 
तद्
दत्तं वरमुपलभ्य भक्तिमेकां
 

गङ्गान्ते विहितपदः कदापि देव ! ।
 

 
[^
]. 'रपि वा' ख. पाठः,