2023-02-16 08:52:13 by ambuda-bot
This page has not been fully proofread.
नारायणीये
[स्कन्धः -
तन्नाशादिति । तस्य वेनस्य नाशादराजके खलजनेभ्यो दस्युभ्यो भीरु-
कैः । तन्मात्रा सुनीथया योगबलेन रक्षिते तदङ्गे वेनशरीरे परिमथितादूरुद-
ण्डात् त्यक्ताघ इति । अयमर्थः -- ऋषिभिर्मथितादूरोर्निषादो नाम कश्चित्
पुरुषो जातः । स च वेनकल्मषांशत्वात् कृष्णवर्णः । तद्वेश्या नैषादा गिरिका-
नेनचराश्चाभूवन्निति । अथ दोर्दण्डे परिमथिते तस्मात् त्वं पृथुवपुः सन् आवि-
रासीः अवतीर्णवान् ॥ ४ ॥
९८
विख्यातः पृथुरिति तापसोपदिष्टैः
सृताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कवलितसम्पदं धरित्री-
माक्रान्तां निजधनुषा समामकार्षीः ॥ ५ ॥
विख्यात इति । पृथुरिति विख्यातस्त्वं तापसोपदिष्टैः "अयं साक्षा-
द्धरेरंशः " ( श्रीभा. स्क. ४. अ. १५. लो. ६) इत्यादितापसोपदेशेन तत्प्रभावज्ञैः
सूतमागधवन्दिभिः परिणुतानि स्तुतानि भाविभूरिवीर्याणि महीदोहनैकोनशतवा-
जिमेधादीनि यस्य स तथा । बेनार्त्या वेनकृतया आर्त्या पीडया कबलिता प्रस्ता
सम्पदोषधिर्यया तां कबालितसम्पदम् अत एवाक्रान्तां क्रुद्धेन त्वया आत्तशरासनेन
धावयता नतोन्नतां कृतां निजधनुष्कोट्या समामकार्षीः गिरिकूटानि चूर्णयन्
पुरग्रामादिविभागेन प्रायः समतलां कृतवानिति भावः ॥ ५ ॥
"
अथ प्रजाः पृथुशासनाद् गोरूपिणीं महीं स्वस्वाभिमतान्नभयं क्षीरं दुदु-
हुरित्याह
भूयस्तां निजकुलमुख्यवत्सयुक्तै-
र्देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ६ ॥
भूय इति । तां महीं निजकुलमुख्यवत्सयुक्तैरिति । अयमर्थः पृथुः
स्वकुलमुख्यं मनुं वत्सं कृत्वा पाणिपात्रे ओषधीरधुक्षत् । ऋषयो बृहस्पतिं वत्सं
कृत्वेन्द्रियेषु पात्रेषु महीं छन्दोमयं क्षीरं दुदुहुः । देवा इन्द्रं वसं कृत्वा