This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः -
 
तन्नाशादिति । तस्य वेनस्य नाशादराजके खलजनेभ्यो दस्युभ्यो भीरु-

कैः । तन्मात्रा सुनीथया योगबलेन रक्षिते तदङ्गे वेनशरीरे परिमथितादूरुद-

ण्डात् त्यक्ताघ इति । अयमर्थः -- --ऋषिभिर्मथितादूरोर्निषादो नाम कश्चित्

पुरुषो जातः । स च वेनकल्मषांशत्वात् कृष्णवर्णः । तद्वेवंश्या नैषादा गिरिका-

नेनचराश्चाभूवन्निति । अथ दोर्दण्डे परिमथिते तस्मात् त्वं पृथुवपुः सन् आवि-

रासीः अवतीर्णवान् ॥ ४ ॥
 
९८
 

 
विख्यातः पृथुरिति तापसोपदिष्टैः
सृ

सू
ताद्यैः परिणुतभाविभूरिवीर्यः ।

वेनार्त्या कवलितसम्पदं धरित्री-

माक्रान्तां निजधनुषा समामकार्षीः ॥ ५ ॥
 

 
विख्यात इति । पृथुरिति विख्यातस्त्वं तापसोपदिष्टैः "अयं साक्षा-

द्धरेरंशः " ( श्रीभा. स्क. ४. अ. १५. श्लो. ६) इत्यादितापसोपदेशेन तत्प्रभावज्ञैः

सूतमागधवन्दिभिः परिणुतानि स्तुतानि भाविभूरिवीर्याणि महीदोहनैकोनशतवा-

जिमेधादीनि यस्य स तथा । बेवेनार्त्या वेनकृतया आर्त्या पीडया कबलिता प्ग्रस्ता

सम्पदोषधिर्यया तां कबालितसम्पदम् अत एवाक्रान्तां क्रुद्धेन त्वया आत्तशरासनेन

धावयता नतोन्नतां कृतां निजधनुष्कोट्या समामकार्षीः गिरिकूटानि चूर्णयन्

पुरग्रामादिविभागेन प्रायः समतलां कृतवानिति भावः ॥ ५ ॥
 
"
 

 
अथ प्रजाः पृथुशासनाद् गोरूपिणीं महीं स्वस्वाभिमतान्नभयं क्षीरं दुदु-

हुरित्याह
 
--
 
भूयस्तां निजकुलमुख्यवत्सयुक्तै-

र्देवाद्यैः समुचितचारुभाजनेषु ।

अन्नादीन्यभिलषितानि यानि तानि
 

स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ६ ॥
 

 
भूय इति । तां महीं निजकुलमुख्यवत्सयुक्तैरिति । अयमर्थः --पृथुः

स्वकुलमुख्यं मनुं वत्सं कृत्वा पाणिपात्रे ओषधीरधुक्षत् । ऋषयो बृहस्पतिं वत्सं

कृत्वेन्द्रियेषु पात्रेषु महीं छन्दोमयं क्षीरं दुदुहुः । देवा इन्द्रं वसं कृत्वा