This page has not been fully proofread.

दशकम् - १८]
 
पृथुचरितवर्णनम् ।
 
अथ पृथुचरितकथनाय वेनकथा प्रस्तौति -
 
-
 
१.
 
जातस्य ध्रुवकुल एव तुनकीर्ते-
रङ्गस्य व्यजनि सुतः स वेजनामा ।
यद्दोषव्यथितमतिः स राजवर्य-
स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १ ॥
 
जातस्येति । ध्रुबकुल एव जातस्याङ्गनाम्नो राज्ञः सुनीथायां बेननामा सुतो-
ऽजान, यस्य वेनस्य दोषेणाधार्मिकत्येन व्यथितो निर्विग्णः सोऽनामा राजवर्यो
वनं गतः । निशीथे जनैरलक्षितो गत इति द्रष्टव्यम् ॥ १ ॥
 
वेनस्याधार्मिकत्वं प्रपञ्चयति -
पापोऽपि क्षितितलपालनाय वेनः
पौराद्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव सम्पर्शसन्
 
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ २ ॥
 
पाप इति । उपनिहितः सिंहासने संस्थाप्याभिषिक्तः ॥ २ ॥
 
अथ सज्जननिन्दयेश्वरनिन्दया चासौ मुनिशापाग्निनिर्दग्धोऽभूदित्याह-
सम्माप्ते हितकथनाय तापसौधे
 
मत्तोऽन्यो भुवनपतिर्न कञ्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
 
शापानौ शलभदशामनायि वेनः ॥ ३ ॥
 
अथ पृथ्ववतारमाह
 
तन्नाशात् खलजन
भीरुकैर्मुनीन्द्र-
स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथिताद थोरुदण्डाद्
 
दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४ ॥
 
मूलपाठ:. २. 'बालोऽपि' क. पाठ:.
 
९७
 
-