This page has not been fully proofread.

नारायणीये
 
रेमे चिरं भवदनुग्रहपूर्णकाम-
स्ताते गते च वनमाहतराज्यभारः ॥ ९ ॥
 
पुनरुत्तमचरितमाह -
 
यक्षेण देव ! निहते पुनरुत्तमेऽस्मिन्
यक्षैः स युद्धनिरतो विरतो मनूक्त्या ।
शान्त्या प्रसन्नहृदयाद् धनदादुपेतात्
त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ १० ॥
 
यक्षेणेति । उत्तमे मृगयीयां केनचिद् यक्षेत्र युद्धे निहतेऽनन्तरं स ध्रुवो
भ्रातृवधामर्षेण यक्षैर्युद्धनिरतस्तान् निहतवान्, मनोः पितामहस्योक्त्या विरतश्चा-
भूत् । अय ध्रुवस्य शान्त्या युद्धनिवृत्त्या ध्रुवसमीपमागताद् धनदादू राजराजादू
वरं वृणीष्वेत्युक्तो ध्रुवस्त्वद्भक्तिमेवावृणोत् । अत्र हेतुर्महात्मेति ॥ १० ॥
 
अथ ध्रुवस्य स्वपदप्राप्तिमाह
अन्ते भवत्पुरुषनीतविमानयातो
 
मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
एवं स्वभृत्यजनपालनलोलधीस्त्वं
 
वातालयाधिप ! निरुन्धि ममामयौघान् ॥ ११ ॥
 
१. 'यां याते के' क, पाठ:
 
स्कन्धः - ४
 
-
 
अन्त इति । अन्ते षड्विंशद्वर्षसहस्रं राज्यमनुभूय तदन्ते भवत्पुरुषाभ्यां
सुनन्दनन्दाभ्यां नीतेन विमानेन यातो गतः सन् मात्रा सुनीत्या समं सह मुदि-
तः सन्तुष्ट अयमास्ते इत्यनेनाधुनापि तस्य विद्यमानत्वं नक्षत्ररूपेण दृश्यमानत्वं
च सूचितम् ॥ ११ ॥
 
इति ध्रुवचरितवर्णनं सप्तदशं दशकं सैकम् ।