This page has been fully proofread once and needs a second look.

नारायणीये
 
रेमे चिरं भवदनुग्रहपूर्णकाम-

स्ताते गते च वनमादृतराज्यभारः ॥ ९ ॥
 

 
पुनरुत्तमचरितमाह -
 
-
 
यक्षेण देव ! निहते पुनरुत्तमेऽस्मिन्

यक्षैः स युद्धनिरतो विरतो मनूक्त्या ।

शान्त्या प्रसन्नहृदयाद् धनदादुपेतात्

त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ १० ॥
 

 
यक्षेणेति । उत्तमे मृगयीया[^१]यां केनचिद् यक्षेत्र युद्धे निहतेऽनन्तरं स ध्रुवो

भ्रातृवधामर्षेण यक्षैर्युद्धनिरतस्तान् निहतवान्, मनोः पितामहस्योक्त्या विरतश्चा-

भूत् । अ ध्रुवस्य शान्त्या युद्धनिवृत्त्या ध्रुवसमीपमागताद् धनदादूद् राजराजादू
द्
वरं वृणीष्वेत्युक्तो ध्रुवस्त्वद्भक्तिमेवावृणोत् । अत्र हेतुर्महात्मेति ॥ १० ॥
 

 
अथ ध्रुवस्य स्वपदप्राप्तिमाह
--
 
अन्ते भवत्पुरुषनीतविमानयातो
 

मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।

एवं स्वभृत्यजनपालनलोलधीस्त्वं
 

वातालयाधिप ! निरुन्धि ममामयौघान् ॥ ११ ॥
 
१. 'यां याते के' क, पाठ:
 
स्कन्धः - ४
 
-
 

 
अन्त इति । अन्ते षड्विंशद्वर्षसहस्रं राज्यमनुभूय तदन्ते भवत्पुरुषाभ्यां

सुनन्दनन्दाभ्यां नीतेन विमानेन यातो गतः सन् मात्रा सुनीत्या समं सह मुदि-

तः सन्तुष्ट अयमास्ते इत्यनेनाधुनापि तस्य विद्यमानत्वं नक्षत्ररूपेण दृश्यमानत्वं

च सूचितम् ॥ ११ ॥
 

 
इति ध्रुवचरितवर्णनं सप्तदशं दशकं सैकम् ।
 

 
[^१]. 'यां याते के' क. पाठः