2023-02-16 08:52:13 by ambuda-bot
This page has not been fully proofread.
दशकम् - १७]
ध्रुवचरितवर्णनम् ।
तावदिति । त्वद्रूपचिद्रसे त्वदाकारे चतुर्भुजत्वादिविशिष्टतया घनीभूय
स्थिते चिद्रसे परब्रह्मणि निलीना तदाकाराकारिता मतिर्यस्य तस्येत्यर्थः ।
यद्वा तादृश्या मतेस्तस्य पुरस्तादाविर्बभूविथेति । अनेन च त्वद्रूपं हृदि सह-
सा तिरोहितमुपलक्ष्योन्मीलितनयनस्तदवस्थं बहिःस्थितं भगवद्रूपमसौ ददर्शेति
व्यज्यते ॥ ६ ॥
त्वदर्शनप्रमदभारतरङ्गितं तं
दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुषमाणमवगम्य कपोलदेशे
संस्पृष्टवानसि दरेण तथादरेण ॥ ७ ॥
त्वदिति । त्वद्दर्शनप्रमदभारे तरङ्गितम् इतिकर्तव्यतामूढतया किञ्चि-
दिव सम्भ्रान्तं पुनश्च ते रूपरसायने रूपामृते दृग्भ्यां निमग्नमवगाढनयनयुग्म-
मिवस्थितं तं तुष्टॄषमाणं स्तोतुमिच्छन्तं तदसमर्थं चावगम्य तत्सामर्थ्यसम्पादनाय
दरेण शब्दब्रह्मात्मकेन पाञ्चजन्याख्येन शङ्खेन कपोलदेशे संस्पृष्टवानसि । आदरेण
लालनपूर्वकम् ॥ ७ ॥
तावद् विबोधविमलं प्रणुवन्तमेन-
माभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूयः
सर्वोत्तरं ध्रुव ! पदं विनिवृत्तिहीनम् ॥ ८ ॥ .
तावदिति । दरेण कपोले स्पृष्टमात्र एव विबोधेन ज्ञानविज्ञानाभ्यां
वगतं मलमज्ञानं यस्मात् स विमलः, तम् । यद्वा विमलं यथा भवति तथेति स्तव-
नक्रियाविशेषणम् । अनेन च स्तुतेर्निर्गुणब्रह्मनिष्ठत्वं व्यज्यते । तदीयं ध्रुवसम्ब-
न्धिनं भावमभिप्रायमवगम्य आभाषथा उक्तवानसि । सर्वोत्तरं सप्तर्षिलोकादप्यु-
परिष्टात् स्थितं पदं स्थानं हे ध्रुव ! विनिवृत्तिहीनं पुनरावृत्तिरहितम् ॥ ८ ॥
ध्रुवे राज्यभारं न्यस्य पिता वनं गतवानित्याह-
इत्यूचुषि त्वयि गते नृपनन्दनोऽसा-
वानन्दिताखिलजनो नगरीमुपेतः ।
१. 'तं तु' ख. पाठ:.