This page has been fully proofread once and needs a second look.

दशकम् - १७]
 
ध्रुवचरितवर्णनम् ।
 
तावदिति । त्वद्रूपचिद्रसे त्वदाकारे चतुर्भुजत्वादिविशिष्टतया घनीभूय

स्थिते चिद्रसे परब्रह्मणि निलीना तदाकाराकारिता मतिर्यस्य तस्येत्यर्थः ।

यद्वा तादृश्या मतेस्तस्य पुरस्तादाविर्बभूविथेति । अनेन च त्वद्रूपं हृदि सह-

सा तिरोहितमुपलक्ष्योन्मीलितनयनस्तदवस्थं बहिःस्थितं भगवद्रूपमसौ ददर्शेति

व्यज्यते ॥ ६ ॥
 
त्व

 
त्वद्
दर्शनप्रमदभारतरङ्गितं तं
 

दृग्भ्यां निमग्नमिव रूपरसायने ते ।

तुष्टूषमाणमवगम्य कपोलदेशे
 

संस्पृष्टवानसि दरेण तथादरेण ॥ ७ ॥
 

 
त्वदिति । त्वद्दर्शनप्रमदभारे तरङ्गितम् इतिकर्तव्यतामूढतया किञ्चि-

दिव सम्भ्रान्तं पुनश्च ते रूपरसायने रूपामृते दृग्भ्यां निमग्नमवगाढनयनयुग्म-

मिवस्थितं[^१] तं तुष्टॄटूषमाणं स्तोतुमिच्छन्तं तदसमर्थं चावगम्य तत्सामर्थ्यसम्पादनाय

दरेण शब्दब्रह्मात्मकेन पाञ्चजन्याख्येन शङ्खेन कपोलदेशे संस्पृष्टवानसि । आदरेण

लालनपूर्वकम् ॥ ७ ॥
 

 
तावद् विबोधविमलं प्रणुवन्तमेन-

माभाषथास्त्वमवगम्य तदीयभावम् ।

राज्यं चिरं समनुभूय भजस्व भूयः
 

सर्वोत्तरं ध्रुव ! पदं विनिवृत्तिहीनम् ॥ ८ ॥ .
 

 
तावदिति । दरेण कपोले स्पृष्टमात्र एव विबोधेन ज्ञानविज्ञानाभ्यां

वि
गतं मलमज्ञानं यस्मात् स विमलः, तम् । यद्वा विमलं यथा भवति तथेति स्तव-

नक्रियाविशेषणम् । अनेन च स्तुतेर्निर्गुणब्रह्मनिष्ठत्वं व्यज्यते । तदीयं ध्रुवसम्ब-

न्धिनं भावमभिप्रायमवगम्य आभाषथा उक्तवानसि । सर्वोत्तरं सप्तर्षिलोकादप्यु-

परिष्टात् स्थितं पदं स्थानं हे ध्रुव ! विनिवृत्तिहीनं पुनरावृत्तिरहितम् ॥ ८ ॥

 
ध्रुवे राज्यभारं न्यस्य पिता वनं गतवानित्याह-
-
 
इत्यूचुषि त्वयि गते नृपनन्दनोऽसा-

वानन्दिताखिलजनो नगरीमुपेतः ।
 

 
[^
]. 'तं तु' ख. पाठ:.
 
ठः