2023-02-16 08:52:12 by ambuda-bot
This page has not been fully proofread.
नारायणीये
आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा
मानी निरेत्य नगरात् किल पञ्चवर्षः ।
सन्दृष्टनारदनिवेदितमन्त्रमार्ग-
[स्कन्धः - ४
-
स्त्वामारराध तपसा मधुकाननान्ते ॥ ४ ॥
।
आकर्ण्यति । आकर्ण्य मातुर्वचनमिति शेषः । स ध्रुवः भवदर्चने
तपश्चरणे निश्चित आत्मा मनो यस्य सः मानी । पञ्चवर्ष इति । पञ्चवया
अपि जिगमिषुं दृष्ट्वा विषण्णां खमातरं कथञ्चिदनुज्ञाप्यान्याननवलोकयन्नेका-
की स्वयं नगरान्निर्जगामेत्यर्थः । स पाथ दृष्टेन नारदेन निवेदित उपदिष्टो
मन्त्रमार्गो यस्य सः त्वाम् आरराध प्रसादयामास । मधुकाननान्ते मधुवनमिति
प्रसिद्धे देशे ॥ ४ ॥
ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
बालस्त्वदर्पितमनाः क्रमवर्धितेन
निन्ये कठोरतपसा किल पञ्च मासान् ॥ ५ ॥
तात इति । ताते पितर्युत्तानपादे विषण्णहृदये आत्मदोषेण बालकस्य
नगरान्निर्गमनमुपश्रुत्य तस्यापायशङ्कया सोत्कण्ठहृदये ध्रुवस्य तपश्चरणेतिकर्त-
व्यतोपदेशानन्तरमेवास्य पितृदर्शनाय नगरीं गतेन श्रीनारदेन परिसान्त्विता तस्य
भाविश्रेयःप्राप्तिकथनादिना मन्दीकृतशोकावेगो चित्तवृत्तिर्मनो यस्य स तथा तस्मिन्
एवं स्थिते सति बालो ध्रुवस्त्वदर्पितमनाः त्वयश्वरे समाहितचित्तः सन् क्रमव
र्धितेन फलपर्णजलादिक्रमेण शनैः परिहतेनाहारेणाभिव्यक्तक्रमोत्कर्षेण कठोरेणो-
ग्रेण तपसा पञ्च मासान् निन्ये ॥ ५ ॥
ततश्च जातशङ्कैर्देवैरर्थितः श्रीहरिस्तस्य पुरतः प्रादुर्बभूवेत्याह-
तावत् तपोबलनिरुच्छ्छ्रसिते दिगन्ते
देवार्थितस्त्वमुदयत्करुणाईचेताः ।
रवद्रूपचिद्रसनिलीनमतेः पुरस्ता-
दाविर्बभूविथ विभो ! गरुडाधिरूढः ॥ ६ ॥
१. 'ण इति' क, पाठ:
२. 'शा' क. पाठः,