2023-03-18 14:08:37 by Padmavati
This page has been fully proofread once and needs a second look.
मानी निरेत्य नगरात् किल पञ्चवर्षः ।
सन्दृष्टनारदनिवेदितमन्त्रमार्ग-
[स्कन्धः - ४
-
स्त्वामारराध तपसा मधुकाननान्ते ॥ ४ ॥
।
आकर्ण्
तपश्चरणे निश्चित आत्मा मनो यस्य सः मानी । पञ्चवर्ष इति । पञ्चवया
अपि जिगमिषुं दृष्ट्वा विषण्णां खमातरं कथञ्चिदनुज्ञाप्यान्याननवलोकयन्नेका-
की स्वयं नगरान्निर्जगामेत्यर्थः । स
मन्त्रमार्गो यस्य सः त्वाम् आरराध प्रसादयामास । मधुकाननान्ते मधुवनमिति
प्रसिद्धे देशे ॥ ४ ॥
ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
बालस्त्वदर्पितमनाः क्रमवर्धितेन
निन्ये कठोरतपसा किल पञ्च मासान् ॥ ५ ॥
तात इति । ताते पितर्युत्तानपादे विषण्णहृदये आत्मदोषेण बालकस्य
नगरान्निर्गमनमुपश्रुत्य तस्यापायशङ्कया सोत्कण्ठहृदये ध्रुवस्य तपश्चरणे[^१]तिकर्त-
व्यतोपदेशानन्तरमेवास्य पितृदर्शनाय नगरीं गतेन श्रीनारदेन परिसान्त्विता तस्य
भाविश्रेयःप्राप्तिकथनादिना मन्दीकृतशोकावे
एवं
र्धितेन फलपर्णजलादिक्रमेण शनैः परि
ग्रेण तपसा पञ्च मासान् निन्ये ॥ ५ ॥
ततश्च जातशङ्कैर्देवैरर्थितः श्रीहरिस्तस्य पुरतः प्रादुर्बभूवेत्याह-
तावत् तपोबलनिरुच्छ्
देवार्थितस्त्वमुदयत्करुणा
रवद्रूपचिद्रसनिलीनमतेः पुरस्ता-
दाविर्बभूविथ विभो ! गरुडाधिरूढः ॥ ६ ॥
[^१]. 'ण इति' क
[^२]. 'शा' क. पाठः
-