This page has been fully proofread once and needs a second look.

दशकम् - १७]
 
ध्रुवचरितवर्णनम् ।
 
व्रतावरजः, तस्य द्वे जाये सुरुचिः सुनीतिश्च । तयोः सुरुचिर्नाम जाया नितरा-

मभीष्टा बभूव । सुनीतिरित्यन्या जाया सा भर्तुरनादृता नात्यभीष्टा अत एवाग-

तिरशरणा त्वामीश्वरमेव नित्यं शरणं गताभूत् निजदौर्भाग्य हेतुदुरितशमनायेश्वर-

मुपासांचक्र इत्यर्थः ॥ १॥
 

 
अङ्के पितुः सुरुचिपुत्रकमुत्तमं तं
 

दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।

आचिक्षिपे किल शिशुः सुतरां सुरुच्या

दुस्सन्त्यजा खलु भवाद्विमुखैरसूया ॥ २ ॥
 

 
अङ्क इति । कदाचित् सुनीतिसुतो ध्रुवः पितुः सिंहासनस्थस्याङ्के उत्तमा-

ख्यं तं सुरुचिपुत्रत्वेनातिलालितं दृष्ट्वा स्त्रयमधिरोक्ष्यन् आरोढुमारब्धः सन् सुतरां

शिशुरपि सुरुच्या आचिक्षिपे दुर्वाग्भिरधिक्षिप्तोऽभूत् । भवद्विमुखैरसूया दुस्सन्त्य-

जा त्यक्तुमशक्या खलु । अनेन सुरुच्या ईश्वरबिविमुखतया पुत्रनाशादि, सुनीतेश्चे-

श्वरानुग्रहेण पुत्रेण सह ध्रुवपदप्राप्त्यादि व्यज्यते ॥ २ ॥
 

 
त्वन्मोहिते पितरि पश्यति दारवश्ये
 

दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् ।

सापि स्वकर्मगतिसन्तरणाय पुंसां
 

त्वत्पादमेव शरणं शिशवे शशं[^१]स ॥ ३ ॥
 

 
त्वदिति । त्वन्मोहिते ईश्वरशक्त्या भवितव्यतया मूढचित्ते । दारवश्य

इत्यनेन स्वाङ्कमारुरुक्षन्तं स्वपुत्रं पश्यन्नपि सुरुचिभयेन नारोपयदिति व्यज्यते ।

दूरमतिशयेन दुरुक्तिभिर्दुर्वाग्भिर्निहतो विद्धः स ध्रुवः निजाम्बां स्वमातरं सुनीति-

मेव गतः प्राप्तवान् । सापि स्वस्य कर्मगतेर्दुष्कर्मफलस्य दौर्भाग्यस्य सन्तरणाय

निवृत्तये । यद्वा पुंसां सर्वशरीरिणामपि स्वकर्मगतेः संसारार्णवस्य सन्तरणमनायासे-

नातिक्रमः तस्मै त्वत्पादमेव शरणं नान्यदिति शशंस । शिशव इत्यनेन पुत्रमङ्क-

मारोप्य मा रोदीरित्याद्यनुनयपूर्वकमुक्तवतीति व्यज्यते ॥ ३ ॥
 

 
[^
]. 'शा' घ. पाठः,