This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - ४
 
दक्ष इति । धातुर्ब्रह्मण अतिलालनया प्रजापतीनामा धिपत्ये संस्थाप्या-

भिषेकादिरूपया रजसा तत्कार्येण कामक्रोधलोभादिना अन्धो विवेकशून्यः

अत एव ब्रह्मणापि नात्यादृतः उपेक्षितः अशान्तिरविद्यमाना शान्तिः क्षमा

यस्य स अशान्तिरक्षम आसीत् । येनाशान्तित्वेन स दक्षो भवत्तनुं त्वदंशभूतमेव

शर्वेवं व्यरुन्ध द्वेष्टि स्म, यज्ञे दक्षाध्वरे वैरपिशुने दक्षशर्ववैरद्योतके स्वसुतां शर्व-

पत्नीं सतीं व्यमानीद् अवमानितवान् ॥ ९ ॥
 
९२
 

 
क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो

देवप्रसादितहरादथ लब्धजीवः ।

त्वत्पूरितक्रतुवरः पुनराप शान्ति
 

स त्वं प्रशान्तिकर ! पाहि मरुत्पुरेश ! ॥ १० ॥
 

 
क्रुद्धेशेति । स्वप्रियावमानेन क्रुद्धेनेशेन मर्दितश्चूर्णांणीकृतो मखस्तदुपकर-

णयज्ञपात्रयूपशालादिर्यस्य सः स्वयं च दक्षः कृत्तशीर्षोऽभवत् । अथ देवैः

प्रसादिताद्धराद् लब्धजीव अजमुखश्चाभूत् । ततस्त्वया पूरितः सम्यक् समापितः

क्र
तुरो यस्य स दक्षः पुनः शान्तितिं स्वां प्रकृतिमाप । हे प्रशान्तिकर ! एवंप्रभावः

त्वं पाहि ॥ १० ॥
 

 
इति नरनारायणचरितवर्णनं दक्षयागवर्णनं च
 

 
षोडशं दशकम् ।
 
-
 

 
एवं मनुपुत्रीणां परम्परां वर्णयित्वा तत्पुत्रपरम्परां वर्णयिष्यन् प्रथमं ध्रुवचरिंरि-

तार्थमुत्तानपादचरितमाह -
-
 
उत्तानपादनृपतेर्मनुनन्दनस्य
 

जाया बभूव सुरुचिर्नितरामभीष्टा ।

अन्या सुनीतिरिति भर्तुरनादृता सा
 

त्वामेव नित्यमगतिः शरणं गताभूत् ॥ १ ॥
 

 
उत्तानेति । उत्तानपादाख्यस्य नृपतेर्मनोः स्वायम्भुवस्य नन्दनः प्रिय-