This page has not been fully proofread.

दशकम् - १६]
 
दक्षयागवर्णनम् ।
 
भीत्येति । हे अङ्गजवसन्तसुराङ्गनाः ! वो युष्माकं भीत्या अलं भयं
मा कुरुत । इहास्मत्स काशमेत्य मन्मानसं तु जुपध्वं मच्चित्तमनुवर्तध्वम् । अथ-
वा मम मानसं मनसा सङ्कल्पितं सत्कारं जुषध्वं प्रीत्या निर्भयाः परिगृह्णी-
ध्वम् । यद्वा मम मनसा सृज्यमानं वः स्वर्गदुर्लभं किञ्चिद्वस्तु स्त्ररित्नाख्यं मया
दीयमानं जुषध्वमाददीध्वम् । मन्माननमिति पाठे मत्कर्तृकां पूजामित्यर्थः ।
इति ब्रुवाणं त्वां परितः किञ्चित् समीपं गत्वा परिवार्य स्तुवतामेषाम् अथ वच-
नानन्तरं स्वपरिचारिका आत्मशुश्रूषां कुर्वतीः कातराक्षी: सुन्दरी: प्रादर्शयः योग-
बलेन सृष्ट्वा प्रदर्शितवान् असि ॥ ६ ॥
 
सम्मोहनाय मिलिता मदनादयस्ते
त्वदासिकापरिमलैः किल मोहमापुः ।
दत्तां त्वया च जगृहुरूपयैव सर्व-
स्ववसिगर्वशमनीं पुनरुर्वशीं ताम् ॥ ७ ॥
 
सम्मोहनायेति । त्वां मोहयितुं सहिताः संहत्यागता मदनादयो मदनमलय-
मारुतवसन्तसुराङ्गनाः । उर्वशीं त्वत्सृष्टास्वन्यतमाम् ॥ ७ ॥
 
दृष्टोर्वशीं तव कथां च निशम्य शक्रः
पर्याकुलोऽजाने भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरोऽवतार-
स्त्वत्तोऽधिको वरद ! कृष्णतनुस्त्वमेव ॥ ८ ॥
 
दृष्नेति । प्रशान्तः सौम्यः । त्वत्तः श्रीनारायणावताराद् अधिकः प्रशान्त-
त्वेन विचित्रकर्मतया रमणीयतरत्वेन चोत्कृष्टः । कृष्णतनुः श्रीकृष्णात्मा ॥ ८ ॥
 
एवं दक्षपुत्रीषु धर्मपत्म्या मूर्ते: कथामुक्त्वा भवपत्न्याः सत्याः कथामाह -
दक्षस्तु धातुरतिलालनया रजोन्धो
 
नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
 
येन व्यरुन्ध स भवत्तनुमेव शर्वे :
 
यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥ ९ ॥
 
+ विमानितवान् । 'मान पूजायाम्' इत्यत आधृषीयाद् णिजभाषे लुङि रूपम् ।