This page has been fully proofread once and needs a second look.

दशकम् - १६]
 
दक्षयागवर्णनम् ।
 
भीत्येति । हे अङ्गजवसन्तसुराङ्गनाः ! वो युष्माकं भीत्या अलं भयं

मा कुरुत । इहास्मत्स काशमेत्य मन्मानसं तु जुध्वं मच्चित्तमनुवर्तध्वम् । अथ-

वा मम मानसं मनसा सङ्कल्पितं सत्कारं जुषध्वं प्रीत्या निर्भयाः परिगृह्णी-

ध्वम् । यद्वा मम मनसा सृज्यमानं वः स्वर्गदुर्लभं किञ्चिद्वस्तु स्त्ररित्नाख्यं मया

दीयमानं जुषध्वमाददीध्वम् । मन्माननमिति पाठे मत्कर्तृकां पूजामित्यर्थः ।

इति ब्रुवाणं त्वां परितः किञ्चित् समीपं गत्वा परिवार्य स्तुवतामेषाम् अथ वच-

नानन्तरं स्वपरिचारिका आत्मशुश्रूषां कुर्वतीः कातराक्षी: सुन्दरी: प्रादर्शयः योग-

बलेन सृष्ट्वा प्रदर्शितवान् असि ॥ ६ ॥
 

 
सम्मोहनाय मिलिता मदनादयस्ते
त्व

त्वद्
दासिकापरिमलैः किल मोहमापुः ।

दत्तां त्वया च जगृहुरूस्त्रपयैव सर्व-
स्वव

स्वर्वा
सिगर्वशमनीं पुनरुर्वशीं ताम् ॥ ७ ॥
 

 
सम्मोहनायेति । त्वां मोहयितुं सहिताः संहत्यागता मदनादयो मदनमलय-

मारुतवसन्तसुराङ्गनाः । उर्वशीं त्वत्सृष्टास्वन्यतमाम् ॥ ७ ॥
 

 
दृष्टोट्वोर्वशीं तव कथां च निशम्य शक्रः

पर्याकुलोऽजानेजनि भवन्महिमावमर्शात् ।

एवं प्रशान्तरमणीयतरोऽवतार-

स्त्वत्तोऽधिको वरद ! कृष्णतनुस्त्वमेव ॥ ८ ॥
 

 
दृष्नेट्वेति । प्रशान्तः सौम्यः । त्वत्तः श्रीनारायणावताराद् अधिकः प्रशान्त-

त्वेन विचित्रकर्मतया रमणीयतरत्वेन चोत्कृष्टः । कृष्णतनुः श्रीकृष्णात्मा ॥ ८ ॥
 

 
एवं दक्षपुत्रीषु धर्मपत्म्न्या मूर्ते: कथामुक्त्वा भवपत्न्याः सत्याः कथामाह -
-
 
दक्षस्तु धातुरतिलालनया रजोन्धो
 

नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
 

येन व्यरुन्ध स भवत्तनुमेव शर्वे :
 
वं
यज्ञे च वैरपिशुने स्वसुतां [^+]व्यमानीत् ॥ ९ ॥
 

 
[^
+] विमानितवान् । 'मान पूजायाम्' इत्यत आधृषीयाद् णिजभाषेवे लुङि रूपम् ।