This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - ४
 
स्तपस्यति सत्यन्यो युध्यति, तथान्यस्मिन्नपीत्यर्थः । शिष्टैककङ्कटम् अवशिष्टैकक-
वचं न्यहतामवधिष्टाम् ॥ ३ ॥
 
अन्वाचरनुपदिशन्नपि मोक्षधर्म
 
त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः ।
शक्रोऽथ ते शमतपोवलनिस्सहात्मा
दिव्याङ्गनीपरिवृतं प्रजिघाय मारम् ॥ ४ ॥
 
अन्वाचरन्निति । लोकसङ्ग्रहणार्थी स्वयमनुतिष्ठन्, उपदिशन् तदर्थिभ्यो
नारदादिभ्य इति शेषः । मोक्षधर्मे निवृत्तिलक्षणं धर्मम् । त्वं श्रीनारायणः भ्रातृ-
मान् नरेण भ्रात्रा सहितः । शमेनेन्द्रियनिग्रहेण तपोबलेन च निस्सह ईर्ष्यायुक्त
आत्मा मनो यस्य स तथा । प्रजिघाय प्रेषयामास । अयं तपसा स्वर्ग जिघृक्षतीति
शङ्कया तपोनाशाय कामं सपरिवारं प्रेषयामासेत्यर्थः ॥ ४ ॥
 
अथ शऋप्रहितस्य कामस्य प्रवृत्तिमाह -
कामो वसन्तमलयानिलबन्धुशाली
कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
भीतस्त्वयाथ जगदे मृदुहासभाजा ॥ ५ ॥
 
काम इति । कान्ता दिव्याङ्गनास्तासां कटाक्षा एव विशिखाः तैः विकस
न्तोऽभिव्यक्ता विलासा भ्रूचलनादयः पत्रस्थानीया येषु तैः मुहुर्मुहुर्विध्यन् अक-
म्पं समाधेरचलचित्तं त्वां भीतः सन् उदीक्ष्य दूरादेवोन्नमितवदनः सन्नवलोक्याथ
मृदुहासभाजा मन्दस्मितसहितेन त्वया जगदे ॥ ५ ॥
 
भीत्यालमङ्गजवसन्तसुराङ्गना ! वो
मन्मानसं त्विह जुषध्वमिति ब्रुवाणः ।
त्वं विस्मयेन परितः स्तुवतामथैषां
प्रादर्शयः स्वपरिचारककातराक्षीः ॥ ६ ॥
 
१. 'नागणवृ' घ. पाठ:.