This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - ४
 
स्तपस्यति सत्यन्यो युध्यति, तथान्यस्मिन्नपीत्यर्थः । शिष्टैककङ्कटम् अवशिष्टैकक-

वचं न्यहतामवधिष्टाम् ॥ ३ ॥
 

 
अन्वाचरन्नुपदिशन्नपि मोक्षधर्
 
मं
त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः ।

शक्रोऽथ ते शमतपोलनिस्सहात्मा

दिव्याङ्गनीना[^१]परिवृतं प्रजिघाय मारम् ॥ ४ ॥
 

 
अन्वाचरन्निति । लोकसङ्ग्रहणार्थीथं स्वयमनुतिष्ठन्, उपदिशन् तदर्थिभ्यो

नारदादिभ्य इति शेषः । मोक्षधर्मेमं निवृत्तिलक्षणं धर्मम् । त्वं श्रीनारायणः भ्रातृ-

मान् नरेण भ्रात्रा सहितः । शमेनेन्द्रियनिग्रहेण तपोबलेन च निस्सह ईर्ष्यायुक्त

आत्मा मनो यस्य स तथा । प्रजिघाय प्रेषयामास । अयं तपसा स्वर्ग जिघृक्षतीति

शङ्कया तपोनाशाय कामं सपरिवारं प्रेषयामासेत्यर्थः ॥ ४ ॥
 

 
अथ शक्रप्रहितस्य कामस्य प्रवृत्तिमाह -
-
 
कामो वसन्तमलयानिलबन्धुशाली

कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।

विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां

भीतस्त्वयाथ जगदे मृदुहासभाजा ॥ ५ ॥
 

 
काम इति । कान्ता दिव्याङ्गनास्तासां कटाक्षा एव विशिखाः तैः विकस
-
न्तोऽभिव्यक्ता विलासा भ्रूचलनादयः पत्रस्थानीया येषु तैः मुहुर्मुहुर्विध्यन् अक-

म्पं समाधेरचलचित्तं त्वां भीतः सन् उदीक्ष्य दूरादेवोन्नमितवदनः सन्नवलोक्याथ

मृदुहासभाजा मन्दस्मितसहितेन त्वया जगदे ॥ ५ ॥
 

 
भीत्यालमङ्गजवसन्तसुराङ्गना ! वो

मन्मानसं त्विह जुषध्वमिति ब्रुवाणः ।

त्वं विस्मयेन परितः स्तुवतामथैषां

प्रादर्शयः स्वपरिचारककातराक्षीः ॥ ६ ॥
 

 
[^
]. 'नागणवृ' घ. पाठ:.
 
ठः