This page has not been fully proofread.

अथ चतुर्थस्कन्धपरिच्छेदः ।
 
महदादेः प्रजेशानां ब्रह्माण्डस्य च सम्भवः ।
सर्गलीलोदिता विष्णोर्विसर्गोऽथ निरूप्यते ॥
 
अथ विसर्गोपयोगिनरनारायणावतारचरितप्रस्तावाय दक्षपरिणयनाद्याह
दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां
 
लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
धर्मे त्रयोदश ददौ पितृषु स्वधां च
 
स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ १ ॥
 
दक्ष इति । कथान्तरारम्भार्थोऽथशब्दः । मनोः स्वायम्भुवस्य । इह प्रसू-
तिसंज्ञायां स्वभार्यायाम् । धर्मे धर्मदेवाय त्रयोदश मैत्र्याद्याः पुत्रीः । पितृषु
पितृभ्यो युक्तेभ्यः स्वधाम् । त्वदंशे त्वत्स्वरूपे ॥ १॥
 
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः
 
पुष्पोत्करान् प्रववृषुर्जुनुवुः सुरौघाः ॥ २ ॥
 
मूर्तिरिति । मूर्तिः धर्मगृहिणीष्ववरजा भवन्तं नारायणं नरसखमिति
विष्णोरंशभूतौ नरनारायणौ सुषुवे जनयामास ॥ २ ॥
 
दैत्यं सहस्रकवचं कवचैः परीतं
साहस्रवत्सरतपस्समराभिलव्यैः ।
पर्यायनिर्मिततपस्समरौ भवन्तौ
 
शिष्टैककङ्कटममुं न्यहतां सललिम् ॥ ३ ॥
 
दैत्यमिति । कवचैः परीतं सहजसहस्रकवचसन्नद्धशरीरम् । साहस्रेति ।
सहस्रसंवत्सरं चीर्णन तपसा तावत्कालं कृतेन समरेण चच्छेद्यैरित्यर्थः ।
पर्यायनिर्मितौ परस्परपरिहारेण कृतौ तपस्समरौ याभ्यां तौ तथा । एकस्मि-