This page has been fully proofread once and needs a second look.

अथ चतुर्थस्कन्धपरिच्छेदः ।
 

 
महदादेः प्रजेशानां ब्रह्माण्डस्य च सम्भवः ।

सर्गलीलोदिता विष्णोर्विसर्गोऽथ निरूप्यते ॥
 

 
अथ विसर्गोपयोगिनरनारायणावतारचरितप्रस्तावाय दक्षपरिणयनाद्याह
--
 
दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां
 

लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।

धर्मे त्रयोदश ददौ पितृषु स्वधां च
 

स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ १ ॥
 

 
दक्ष इति । कथान्तरारम्भार्थोऽथशब्दः । मनोः स्वायम्भुवस्य । इह प्रसू-

तिसंज्ञायां स्वभार्यायाम् । धर्मे धर्मदेवाय त्रयोदश मैत्र्याद्याः पुत्रीः । पितृषु

पितृभ्यो युक्तेभ्यः स्वधाम् । त्वदंशे त्वत्स्वरूपे ॥ १॥
 

 
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं

नारायणं नरसखं महितानुभावम् ।

यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः
 

पुष्पोत्करान् प्रववृषुर्जुनुनुवुः सुरौघाः ॥ २ ॥
 

 
मूर्तिरिति । मूर्तिः धर्मगृहिणीष्ववरजा भवन्तं नारायणं नरसखमिति

विष्णोरंशभूतौ नरनारायणौ सुषुवे जनयामास ॥ २ ॥
 

 
दैत्यं सहस्रकवचं कवचैः परीतं

साहस्रवत्सरतपस्समराभिलव्यैः ।

पर्यायनिर्मिततपस्समरौ भवन्तौ
 

शिष्टैककङ्कटममुं न्यहतां सललिम् ॥ ३ ॥
 

 
दैत्यमिति । कवचैः परीतं सहजसहस्रकवचसन्नद्धशरीरम् । साहस्रेति ।

सहस्रसंवत्सरं चीर्णन तपसा तावत्कालं कृतेन समरेण चच्छेद्यैरित्यर्थः ।

पर्यायनिर्मितौ परस्परपरिहारेण कृतौ तपस्समरौ याभ्यां तौ तथा । एकस्मिमिं-