This page has been fully proofread once and needs a second look.

८६
 
[स्कन्धः - ३
 
शरीरं नीत्वा पाशैर्गले बढाद्ध्वाकृप्ष्य त्रिभिर्मुहूर्तेतैर्नवनवतिसहस्रयोजनदूरे यमसदनं

प्रापितोऽष्टाविंशतिकोटिनरकभेदान् पापतारतम्येनानुभूयानन्तरं तृणादिषु विंश-

तिलक्षं जन्मान्यवाप्य जलजन्तुषु नवलक्षं कृमिजातिप्ष्वेकादशलक्षं पक्षिजातिषु

दशलक्षं चतुष्पाज्जातिषु सप्तकोटिजन्मानि चावाप्यानन्तरं मनुष्यजातिषु चतुर्लक्
षं
ब्राह्मणजातिषु हीनमध्योत्तमतया शतं च जन्मान्यवाप्य तत्र पुनरपि पापकृच्चेन्न-

रकेषु पतति" इति ॥ ६ ॥
 

 
सम्प्रति समाभ्यां पुण्यपापाभ्यां पुनः पुनर्मर्त्यलोकप्राप्तिमाह-
-
 
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे
 

प्रसवगलितवोधः पीडयोल्लङ्घ्य वाल्यम् ।

पुनरपि त मुह्यत्येव तारुण्यकाले
 

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ७ ॥
 
नारायणीये
 

 
युवतीति । मातुर्गर्भे विण्मूत्रगर्ते खिन्नः कटुट्वम्लक्षारोप्ष्णैर्मातृभुक्तान्नपा-

नादिभिः कृमिभिश्चोपद्रुतः अकाण्डे दुःखप्रतीकारकरणासम्भवकाले जातबोधः

गर्भस्थः सप्तमे मासि दैवाल्लब्धस्मृतिर्भवति । तथापि जीवः किं नाम करोति ।

प्रसवे सूतिमारुतनोदनेन योनियन्त्रनिप्ष्पीडनेन च गलितोऽपगतो जन्मशतसञ्चित -

कर्मविषयो बोधो यस्य । पुनश्च पीडयेष्टानिष्टप्राप्तिपरिहारासामर्थ्यसम्भूतेन दुःखेन

सह बाल्यमुल्लङ्घ्य पुनरपि तारुण्यकाले भगवद्भजनसामर्थ्ये सत्यपि मुह्यत्येव ।

कामक्रोधपराधीनः सन् काम्यं निषिद्धं वा कर्म कुर्वाणस्तमो विशतीत्यर्थः ॥ ७ ॥
 

 
केवलेन पुण्येन स्वर्गादिगतिं दर्शयति-
-
 
पितृसुरगणयाजी धार्मिको यो गृहस्थः

च निपतति काले दक्षिणाध्वोपगामी ।

माय निहितमकामं कर्म तूदक्पथार्
 
थं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ८ ॥
 

 
पित्रिति । भगवर्द्धर्मविमुखतया पितॄन् सुरगणांश्च सर्वकाम्यादिफलकामनया

यष्टुं शीलमस्येति तथा । धार्मिकः निषिद्धकर्मपरित्यागेन केवलविहितकर्मानुष्ठाता ।