This page has been fully proofread once and needs a second look.

दशकम् १५]
 
-
 
कपिलोपाख्यानम् ।
 
रुचितुलिततमालं शीलयेतानुवेलं
 

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ४ ॥
 

 
विमलेति। विमला यमनियमैर्विशुद्धा मतिर्यस्य स तथा। उपात्तैः स्वीकृतै-

र्विजितैरित्यर्थः । आसनाद्यैः प्राणायामप्रत्याहारधारणाध्यानसमाधिभिः ममेश्वरस्यानं
ङ्गं
रूपं दिव्यान्यप्राकृतानि भूषायुधान्येवाङ्को लाञ्छनं यस्य । अनुवेलं सर्वदा शीलयेता-

भ्यस्येत् ॥ ४ ॥
 

 
संप्रति ज्ञानयोगाड्द् भक्तिमार्गस्य सुगमत्वमाह
-
--
 
मम गुणगणलीलाकर्णनैः कीर्तनाद्यै-

र्
मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः ।

भवति परमभक्तिः सा हि मृत्योर्विजेत्री
 

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १ ॥
 
८५
 

 
ममेति। तत्र भक्तिर्द्वेधा साधनसाध्यभेदात् । ममेश्वरस्य गुणगणा भ-

क्तवात्सल्यादयः, लीलाः चरितानि, तदाकर्णनैः । कीर्तनमाद्यं येषां स्मरणनमस्कारा -

र्चनवन्दनदास्यसख्यात्मनिवेदनानां ते तथा तैः । नवलक्षणया साधनभक्त्येत्यर्थः ।

परमभक्तिः साध्यभक्तिर्भवतीत्युक्तम् । तस्याः स्वरूपमाह - मथी--मयीति । सुरसरिदोघ-

प्रख्या गङ्गाप्रवाहतुल्या चित्तानुवृत्तिः प्रेमात्मिका मनोवृत्तिः, साध्यभक्तिरित्यर्थः ।

सा भक्तिः । हिरवधारणे । मृत्योः संसारस्य विजेत्री विशेषेणानायासेनैव संसारस्य

समूलोन्मूलनीत्यर्थः ॥ ५ ॥
 

 
अथ भक्तिदार्ढ्यार्थं केवलपापकर्मणा नरकपातप्रकारमाह-
-
 
अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं

प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।

विशति हि गृहसक्तो यातनां मय्यभक्तः

कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ६ ॥
 
अद्दहेति ।

 
अहहेति । अहहेति खेदे । बहुलया प्रभूतया हिंसया उपद्रवेण परार्थस्पृहया

इतस्ततःतश्चौर्यादिना सञ्चितैरार्जितैरर्थैर्धनधान्यादिभिः कुडुम्बं पुत्रभार्यादीन् । यातनां

रौरवादिनरकं विशति । केवलपापकर्मिणो नरकप्रवेशप्रकारश्चोक्तः "यमदूतैर्यातना-