This page has not been fully proofread.

३४
 
Nāmarūpajñānam
 
२७. एरण्ड: Eranda
 
१. एरण्डः (भा०)—आ समन्तादीरयति क्षिपति अपसारयति वायु-
मिति एरम्, एरमण्डं बीजमस्य; 'ईर क्षेपे' ।
 
२. आमण्डः (भा०) —आ समन्तान्मण्डयति भूषयति पुष्पैरिति ।
३. उत्तानपत्रकः (कै०) – उत्तानं पत्रमस्य ।
 
४. गन्धर्वहस्त: (भा०) – गन्धर्वस्य हस्त इव पत्रमस्य ।
५. चित्रबीज: (सो०) – चित्रितं बीजमस्य ।
 
६. दीर्घदण्डः (भा०) — दीर्घं दण्डं पत्रवृन्तमस्य ।
 
७. पञ्चाङ्गुलः (भा०)– पञ्चाङ्गुलिवद् विभक्तं पत्रमस्य ।
८. वर्धमानः (भा०) – आशु वर्धते ।
 
९. वातारि: (रा०) – वातविकाराणामरिः शत्रुर्नाशक इत्यर्थः ।
१०. व्यडम्बकः (भा०) — विडम्बयति नटमङ्गभङ्गैर्वायुवेगेन संचालितः ।
११. व्याघ्रपुच्छ: (भा०) – व्याघ्रस्य पुच्छ इव पुष्पदण्डोऽस्य ।
१२. शूलशत्रुः (श० ) – शूलनाशकः ।
१३. स्नेहप्रदः (सो०) – स्नेहं तैलं ददातीति ।
१४. हस्तिपर्णकः (नि०) – बृहत् पत्रमस्य ।
 
Frachh
 
Eranda ( Ricinus communis Linn. ) is a fastly
growing plant ( vardhamāna ) with large ( hastipar-
naka ), palmately lobed (gandharvahasta; pañcān-
gula ) leaves with long petioles ( dirghadanda ) fac-
ing upwards (uttanapatraka). It is embellished with
flowers (amanda ) arranged in beautiful racemes like
tiger's tail ( vyāghrapuccha ) and seems as if danc-
ing ( vyadambaka ) moved by wind. Seeds are