This page has been fully proofread once and needs a second look.

१७. <entry>अश्वत्थः</entry> Aśvattha
 
१. अश्वत्थः (भा०) - अश्वादुत्थितो जातः; अश्वरूपेणाग्निस्तिष्ठत्यस्मिन् वा'[‌^१]; अथवा - अश्व इव तिष्ठत्यस्मात्, वाजीकरत्वात् ।
 
२. क्षीरद्रुमः (ध०) – क्षीरसहितो वृक्षः, पञ्चक्षीरिवृक्षेषु पठितः ।
 
३. गजाशन: (भा०) - गजैरश्यते भक्ष्यत इति ।
 
४. गुह्यपत्रः (ध०) - गुह्याकारं भगाकारं पत्रमस्य ।
 
५. चलपत्रः (भा०) – चलानि पत्राण्यस्य ।
 
६. चैत्यद्रुमः (ध०) – धर्मस्थलेषु रोपितः ।
 
७. पिप्पलः (भा०) – सूक्ष्मफलः ।
 
८. प्लीहारिः (श०) – प्लीहवृद्धिनाशकः ।
 
९. बोधिवृक्षः (ध०) – गौतमस्य बोधप्रदः ।
 
१०. याज्ञिकः (रा०) – यज्ञेषु प्रयुज्यमानः ।
 
११. वन्यवृक्षः (ध०)-वने स्वतो जातो वृक्षः ।
 
१२. सिरापत्रः (श०) – प्रव्यक्तसिरायुक्तानि पत्राण्यस्य ।
 
१३. स्वादुबीजकः (कै०) – स्वादूनि मधुराणि बीजान्यस्य ।
 
Aśvattha ( Ficus religiosa Linn. ) has mythological origin from 'aśva (horse) and is used as aphrodisiac ( aśvattha ) and in splenomegaly ( plīhāri ).
It is one of the milky trees (kṣīradruma) growing
wild ( vanya vṛkṣa ), having leaves with prominent
nerves ( ṣirāpatra ) and eaten by elephants (gajāśana),
 
१.[^१] देखें - प्रियव्रत शर्माः द्रव्यगुणविज्ञान, चतुर्थ भाग, पृ० २१ ।