This page has been fully proofread once and needs a second look.


 
Nāma

३.<ent
rūpajñay>अगुरु</enam
 
३. अगुरु
 
try> Aguru
 

 
१. अगुरु (भा०) –न गुरु यस्मात्तदगुरु ( काष्ठम् ); गुरुत्त्वेऽपि

धूमरूपेणोत्पततीति प्रकृत्या न गुरु अगुरु ( लघु ),

कर्मणाऽपि लघु ।
 

'अगरुः' इति पाठे 'अगे पर्वते रोहति' इति, यथोक्तं

प्रियनिघण्टौ,-'अगे रोहति सोऽगरुः' इति ।
 

 
२. अनार्यकम् (भा०) - अनार्ये किरातदेशे जायमानः ।
 

 
३. कृमिजम् (भा०) कृमिभिर्जातम् ।
 

 
३ (क) कृमिजग्धम्-कृमिभिर्भक्षितं सज्जायते ।
 

 
४. जोङ्गकः (अ०) –जोङ्कके गिरौ भवः ।
 

 
५. धूपवासम् (सो०) --धूपो वासनार्थमस्य; धूपे वासः सुगन्धो-

ऽस्येति वा ।
 

 
६. प्रवरम् (भा०) - प्रकर्षेण व्रियते इति, श्रेष्ठमित्यर्थः ।

 
७. योगजम् (भा०) -योगात् क्रिमिसंयोगाज्जातम् ।
 

 
८. राजार्हम् (भा०) – राजानर्महति ।
 

 
९. लघु (सो०) - अगुरुत्वात् ।
 
-
 
usq
 
1dur
 
bage
 

 
१०. लोहम् (भा०) – लोहवत् कृष्णं गुरु च; यदुक्तं प्रियनिघण्टौ-

'कृमिजं कृमिभिर्जातमगे रोहति सोऽ गरुः । किरात-

देशजोऽनार्यो लोहं कृष्णगुरुत्वतः ॥' इति । 'लोह-

नामा' (भा०) इत्यस्यापि स एवार्थः ।
 

 
११. वंशिकम् (भा०)–वमति उद्रिगिरति सुगन्धम्, 'टुवम उद्गिरणे; '

अथवा उश्यते इष्यते जनैः, 'वश कान्तौ'; अथवा वंश

इव बहुविस्तारत्वात् ।
 

 
१२. वर्णप्रसादनम् (सो०)-वर्णं प्रसादयति विकारानपाकृत्येति ।