This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 
१९७
 
मदनपालेन तु निरुक्तिरित्थं प्रकटिता- 'हरस्य भवने

जाता, हरिता च स्वभावतः । हरते सर्वरोगांश्च ततः

प्रोक्ता हरीतकी ।' इति । प्रियनिघण्टौ तु--- देहे सं
गं
मलानां हरति बहुतरं सा हरीतक्यभिख्या' इति ।
 

२. अभया (भा० ) – न भयं व्याधीनां सेवनादस्याः, रसायनत्वेन

व्याधिप्रतिषेधकत्वात् ।
 

३. अमृता (भा०) - अमृतवत् फलदायिनी, रसायनत्वेन जराव्याधि -

प्रतिषेधात् ।
 

४. अमोघा (अ० ) – अव्यर्था ।
 
59
 
था ।
५. अव्यथा (भा०) - व्यथा शूलं रोगो वा; न व्यथा सेवेननास्याः,

शूलह्रत्त्वाद् रोगनाशकत्वाच्च ।
 

६. कायस्था
 
(भा० ) – कायः स्वस्थस्तिष्ठत्यनया, अन्तर्भावित-

ण्यर्थात् 'कायं तारुण्ये स्थापयतीति, वयःस्थापनी-

त्यर्थः ।
 
-
 

७. चेतकी (भा०) - चेतयति चित्तं प्रबोधयतीति, यथोक्तं—उन्मी-

लिनी बुद्धिबलेन्द्रियाणाम्' इति ।
 

८. जीवन्ती
 
(भा० ) — जीवन्तं पुरुषं यापयति, स्वास्थ्यकरत्वात्

आयुष्करत्वाच्च ।
 

९. पञ्चभद्रिका (अ०म० ) – पञ्च भद्रा रसा अस्याः ।
 
IC
 

१०. पथ्या (भा० ) – पथिभ्यः स्रोतोभ्यो हिता, पथोऽनपेता वा; मनः-

शरीरानुपघातिनीत्यर्थः ।
 

११. पूतना (भा०) - पूतं संशुद्धं करोतीति ।
 

१२. प्रमथा (म०नि०) – प्रमथ्नाति दोषान् निर्हरति चेति ।

१३. प्राणदा (अ० ) - प्राणं शक्तिं बलञ्च ददातीति ।