This page has been fully proofread once and needs a second look.

१४९. <entry>हरिद्रा <entry>Haridrā
 
१. हरिद्रा (भा०) — हरिं हरितं वर्णं हलीमकाख्यं द्राति अपसारय-
तीति, 'द्रा कुत्सायां गतौ' ।
२. काञ्चनी (भा० )– स्वर्णवर्णा ।
३. कृमिघ्ना (भा०) – कृमिनाशिनी ।
४. निशाख्या (भा० ) – निशारजनीत्यादिनामभिर्व्यवहृता।
५. पिण्डहरिद्रा (द्र०) -- पिण्डरूपा हरिद्रा ( न तु दारुरूपा), कैय-
देवस्तस्मिन्नेवार्थे 'पिण्डभद्रा' 'पिण्डा' इति च पठति ।
६. पीता (भा०)– पीतवर्णकन्दा, पीतपुष्पा च ।
७. मङ्गल्या (ध०)– माङ्गलिककृत्येषु प्रयोज्यमाना ।
८. मेहघ्नी (प०) – प्रमेहरोगे विशेषेण प्रशस्ता । 'मेहघातिनी' इति
निघण्टुशेषः ।
९. योषित्प्रिया (भा० ) – पोषित्प्रिया स्त्रीणां प्रिया, उद्वर्तनादिके
प्रयोज्यत्वात् ।
१०. रञ्जनी (ध०) – रञ्जयति वस्त्रादीनि, वस्त्रादिरञ्जने प्रयुक्तेत्यर्थः ।
११. लोमशमूलिका (अ०) – लोमशं मूलमस्याः ।
१२. वरवर्णिनी (भा० ) – वरः श्रेष्ठो वर्णोऽस्याः ।
१३. वर्णविलासिनी (ध०) – वर्णं विलासयति प्रसादयतीति ।
१४. विषघ्नी (ध० ) – विषं हन्तीति ।
१५. हट्टविलासिनी ( भा० ) – हट्टमापणं विलासयति शोभयतीति ।
'वैश्या' (कै०) इत्यपि पण्यत्वमस्याः सूचयति ।
१६. हलदी (भा०) – लौकिकी संज्ञा ।
 
Haridrā ( Curcuma longa Linn. ) is a small herb